________________ 271.] . पञ्चमोऽध्यायः। 233 दुःखभूतेषूपादानस्कन्धेषु हरिहरहिरण्यगर्भादिष्वकारणेषु बुद्ध्या भ्रान्तः। तस्माद्यत्रैव भ्रान्त स्तत्रैवाविपरीतदर्शणा(न)त्यहीयते। कापथे च मिथ्यादृष्ट्यादीनालम्बते, स मार्गदर्शनप्रहातव्यः शीलव्रतपरामर्श इति / 'सोऽपि हि नाम दुःखे विप्रतिपन्नः' इत्याचार्यः। मिथ्यादृष्ट्यादयो हि मार्गदर्शनप्रहातच्या अष्टावनुशयाः शीलव्रतपरामर्शस्यालम्बनम् / ते च सास्रवत्व द् दुःखसत्यसंगृहीताः। तत्र च विप्रतिपन्न इति / दुःखदर्शनप्रहातव्य एव स्यादित्यभिप्रायः। ..."तस्मात् परीक्ष्य एषोऽर्थः' इति / यस्मादयं दुःखदर्शनप्रहातव्यः शीलव्रतपरामर्शो न संभवति मार्गदर्शनप्रहातव्यश्च / अतिप्रसंगाविदोषात्तस्मात परीक्ष्य एषोऽर्थः / शीलवतपरामर्शो दुःखदर्शनप्रहातव्यः मार्गदर्शनप्रहातव्यश्चेति / तदिदमाचार्येण संशयावद्य कृतम्, न स्वमतं दशितम् / ___अन्य आहुः-योगाचारमतिमपेक्ष्यवं कृतम् / योगाचारा ह्यष्टाविंशत्युत्तरं क्लेशशतं वर्णयन्ति / यथैव हि दुःखदर्शन प्रहातव्या इमे दशानुशया भवन्ति / तथैवेमे दश समुदयदर्शनप्रहातव्याः। तथैव च दश निरोधदर्शनप्रहातव्याः। दश मार्गदर्शनप्रहातव्या इति चत्वारिंशत् कामावचरा दर्शनहेया भवन्ति / भावनाहेयास्तु षट् / अकल्पिका सत्कायदृष्टिः उच्छेददृष्टिः सहजो रागः प्रतिघः मानः अविद्या चेति / षट्चत्वारिंशत् कामावचरा अनुशया भवन्ति / रूपावचरास्त्वेकचत्वारिंशदेत एव प्रतिघवाः / यथा रूपावचराः. एवमारूप्यावचरा इति / (Cf. Asm. p. 52.) : अत्र कश्चित्समाधिमाह-यदुक्तं "अतिप्रसंगः सर्वेषां सास्रवालम्बनानां दुःखे विप्रतिपन्नत्वात्' इति / अत्र ब्रूमः / नातिप्रसंगः / दुःखादिमुखेन विप्रतिपत्तेः / यद्यपि सास्रवा लम्बना दुःखसत्यविप्रतिपन्नाः, तथापि तु केचिद् दुःखमुखेन विप्रतिपन्नाः, केचित् समुदयमुखेन / केचिन्निरोधविप्रतिपन्नविप्रतिपन्नाः। केचिन्मार्गविप्रतिपन्नविप्रतिपन्नाः / तत्र ये दुःखमुखेन... ते दुःखदर्शनप्रहातव्याः। शीलवतपरामर्शश्च दुःखमुखेन दुःखे विप्रतिपन्नो नित्यात्मग्रहणात् / तस्माद् दुःखदर्शनप्रहातव्यः। यस्तु मार्गविप्रतिपन्न विप्रतिपन्नः, तद्यथा सांख्यनिर्जन्यावयः.... मिथ्यादृष्टिमुत्पादयन्ति / तां च मिथ्यादृष्टि शीलव्रतपरामर्शोऽग्रतः पश्यति / अयमेषां शीलव्रतपरामर्शो मार्गदर्शनप्रहालव्यः। नास्ति तु स शीलव्रतपरामर्शः यः समुदयमुखेन... नापि निरोधमुखेन""विप्रतिपन्नः स्यात् / तस्माद् दुःखमार्गदर्शनप्रहातव्य एव शीलव्रतपरामर्श इति / ___कथं पुनः समुदय-निरोधमुखेन न विप्रतिपद्यते ? अत्राचार्यसंघभद्र आह"प्रतो मार्गदर्शनप्रहातव्य एव शीलवतपरामर्शः संभवति / न निरोधदर्शनप्रहातव्य इति / इह शीलव्रतपरामर्शो द्विप्रकार इष्यते आभिमिकः ।.."योऽपि हि गोशीलादिना शुद्धिं प्रत्येति सोऽप्यमार्गे मार्ग पश्यतीति / यः शीलवतादिदुःखालम्बनः शीलव्रतपरामर्शः, स दुःखदर्शनप्रहातव्यः / यो मार्गविप्रतिपत्त्यालम्बनः, स मार्गदर्शनप्रहातव्यः / यः शीलनताद्यालम्बनः स न मार्गविप्रतिपत्तिः / तथा न बावते यथा मार्गविप्रतिपत्त्यालम्बनः / यस्माच्छीलव्रताद्यालम्बन औदारिकः, न दूरगतः न दृढाशयः अल्पयत्नपात्यः / तद्विपर्ययान्मार्गविप्रतिपत्त्यालम्बन इति। Saku. pp. 450-453. See LVPAK. v. pp. 19-21