________________ 232 अभिधर्मदीपे [271. त्रयीधर्म(र्मा)णस्त एव ते हरिहरहिरण्यगर्भादयो न कारणमुपादानस्कन्धात्मकत्वात् / न च नित्याः, न चानचा इत्येतद्विस्तरेणाविष्कृतम् / ' पश्वा(श्वा) लम्भनाग्निजलप्रवेशादयश्च न स्वर्गापवर्गहै ( हेर्दानशीलभावनानां तद्धे. तुत्वात् / इत्यतो विपरीतदर्शण (न) मेतच्छीलव्रतपरामर्शः प्रवर्तते, प्राप्तस्तहि समुदयदर्शनप्रहातव्यः ? नैतदस्ति / यस्मादसौ दुःखभ्रान्त्यपथादानात्तदृष्ट्युत्सार्य एव सः / / 2 1 V. supra, p. 119. 2 Cf. ईश्वरादिषु नित्यात्मविपर्यासात् प्रवर्तते / ___ कारणाभिनिवेशोऽतो दुःखदुग्धेय एव सः // Ak. V. 8. सत्यकारणे कारणदृष्टिः शीलव्रतपरामर्शः / कस्मादयं न समुदयदर्शनप्रहातव्यः ?... दुःखदर्शनादेव हि तेषु तो नित्यात्मनाही प्रहीयेते। तस्मात् तत्कृतोऽपि कारणाभिनिवेशस्तत एव प्रहीयते / यस्तहि जलाग्निप्रवेशादिभिः स्वर्गोपपत्ति पश्यति शीलवतेन वा शुद्धिं सोऽपि दुःखदर्शन प्रहातव्य एव / एष हि सूत्रपाठः ..."अकारणं कारणतः प्रत्येति शीलवतपरामर्शो दुःखदर्शनप्रहातव्यः" इति विस्तरः। किं: पुनः कारणमसौ दुःखदर्शनप्रहातव्यः ? दुःखे विप्रतिपन्नत्वात् / ___अतिप्रसंगः सर्वेषां सास्रवालम्बनानां दुःखे विप्रतिपन्नत्वात् / कीदृशो वाऽन्यः शीलवतपरामर्शो मार्गदर्शनप्रहातव्यः ? यो मार्गदर्शनालम्बनः / सो पि हि नाम ,दुःखे विप्रतिपन्नः / ... तस्मात् परीक्ष्य एषोऽर्थः / Akb. V. 8. ___Yasomitra gives the following comment :-कस्मादयं न समुदयदर्शनप्रहातव्यः' इति / हेतुविप्रतिपन्नत्वादित्यभिप्रायः। 'तत्कृतोऽपिकारणाभिनिवेशः' इति / नित्यैकात्मकर्तृग्राहकृतोऽपीर्थः / 'तत एव प्रहीयते' इति दुःखदर्शनाद्रेव प्रहीयते / 'यस्तहि जलाग्निप्रवेशादिभिः स्वर्गोपपत्ति पश्यति, शीलव्रतेन वा शुद्धि' इ त / नायं तत्कृतः कारणाभिनिवेशः / कथं दुःखदर्शनात्प्रहीयते ? तस्मात्समुदयदर्शनप्रहातव्य एवायं भविष्यती. त्यभिप्रायः। वैभाषिक आह- 'सोऽपि दुःखदर्शनप्रहातव्यः' इति विस्तरः / दुःखे विप्रतिपन्नत्वादिति वैभाषिकाः / कथं च पुनदुःखे विप्रतिमन्नः ? तेन स्वर्गगमनाच्छुद्धिदर्शनाद्वा। 'अतिप्रसंगः' इति विस्तरेणाचार्यः / 'सर्वेषां सास्रवालम्बनानां' अदृष्टिस्वभावानां च दुःखादिदर्शनप्रहातव्यानां दुःखे विप्रतिपन्नत्वात् / सर्वं हि सास्रववस्तु दुःखमिति दुःखदर्शनप्रहातव्यप्रसंगः / तथा सति न कश्चित्समुदयादिदर्शनप्रहातव्य: स्यात् / 'कोदशो वाऽन्यः शीलवतपरामर्शो मार्गदर्शनप्रहातव्यः स वक्तव्यः / ' योऽपि हि गोशीलादिना शुध्यति" इति पश्यति तस्याप्ययमकारणं कारणतः प्रत्येतीति दुःखदर्शनप्रहातव्यः शीलवतपरामर्शः इति पठ्य त / वैभाषिक आह-'यो मार्गदर्शनप्रहातव्यालम्बनः' इति / यो मार्गदर्शनहेयानष्टौ