________________ 271.] . पञ्चमोऽध्यायः / 231 [271] अहेतावपथे चैव तद्धि शीलवताह्वयः / * सर्व खलु सास्रवं वस्तु होनाहत्वाद्धीनम् / आदिग्रहणशब्दस्य चात्र लोपो द्रष्टव्यः / ' दृष्ट्यादिपरामर्शो दृष्टिपरामर्शः। चतस्रो दृष्टोः प्रत्यवरं च वस्त्वग्रतो गृह्णाति / कथमग्रयेयं दृष्टि: ? येयमात्मदृष्टिः-आत्मानमहं पूजयिष्यामि वासुदेवोऽत्र पूजितो भविष्यतीति होनपुरुषं पञ्चोपादानस्कन्धात्मकमग्रतः प्रतिपद्यते / नास्ति दत्तं यथासुखं प्रवर्तिष्यत इत्येवमादिः / अकारणे कुमार्गे च कारणमार्गग्रहणं शीलवतपरामर्शः / तद्यथा प्रकृतीश्वरपुरुषादिहेतुकं पञ्चोपादानस्कन्धात्मकं न तृष्णाहेतुकमित्यकारणे कारण. दर्शण (नम्)। कुमार्ग चाग्निजलप्रवेशादौ प्रकृतिपुरुषान्तरज्ञानादौ च स्वर्गापवर्गहेतुत्वम् / शीलं त्वत्राग्निहोत्रानुष्ठानं प्रतिजुहोत्याद्यास्तिस्रोऽन्तरङ्गक्रियाः, पश्वालम्भनाद्या: बहिरङ्गाः, तदुभयस्य यावज्जीवमनुष्ठानं शीलम् / यथोक्तम्"जरामर्यं वैतत्सत्रं यदग्निहोत्रं जुहोति"३ इति / / व्रतम्-आग्नेयमग्निपरिचरणं शौक्रमापो हि ष्ठाद्यनुष्ठानम् अपां शुक्रदेवत्यत्वात्। वार्हस्पत्यौपनिषद गोदानोयं जटावतारणम् / अथवा गोव्रतादोनि५ व्रतान्येभिः शुध्यते मुच्यत इत्याहुः / / 1cf. दृष्ट्यादिपरामर्श इति वक्तव्ये आदिशब्दलोपः कृतः Akb. V. 7.-'मादिशब्दलोपः कृतः' इति / दृष्टयादीनामुपादानस्कन्धानां परत्वेन प्रधानत्वेनामर्शो दृष्टिपरामर्श इति / परराब्दप्रयोगेण चायमतिशयार्थी लभ्यत इति आचार्यसंघभद्रः / Saks. p. 450. See LVPAk V. p. 18, n. 3. 2f अहेतौ हेतुदृष्टिरमार्गे मार्गदृष्टिः शीलव्रतपरामर्शः / तद्यथा महेश्वरो न हेतुर्लोकानाम् / तं च हेतुं पश्यति"। अग्निजलप्रवेशादयश्च न हेतुः स्वर्गस्य तां च हेतुं पश्यन्ति / Akb. V. 7. .. शीलव्रतपरामर्शः / पञ्चसूपादानस्कन्धेषु शुद्धितो मुक्तितो नैर्याणिकतश्च यद्दर्शनम् / Tvb. 12a. - अशुचिहेतुप्रत्ययेषु गवेषयति परिशुद्धमार्गमित्येवं दृष्टिरुच्यते शीलव्रतपरामर्शः / Aam. p. 78. - तत्थ कतमो सीलब्बतपरामासो ? इतो बहिद्धा समणब्राह्मणानं 'सीलेन सुद्धि, वतेन सुद्धि सीलब्बतेन सुद्धीति' या एवरूपा दिट्ठिDhs. 1005. ___ 3 Cf. एतद्वै जरामर्य सत्त्रं यदग्निहोत्रं जरया वा ह्येवास्मान्मुच्यन्ते मृत्युना वा / Satapatha-brahmana, 12, 4, 1, 1. 4Cf आपो हि ष्ठा मयोभूवस्ता नऽऊर्जे दधातन / महे रणाय चक्षसे / Sukla. yajurved, XI. :0. . 5f. वतेना ति गोवतादिना DhsA. V.30. See M, sutta 57.