________________ 222 अभिधर्मदीपे [ 261 प्राप्तो (प्तौ)' यथा दुःखोऽग्निरिति / लाक्षणिकस्त्वभिधर्मे क्लेश एवानुशयः / तस्मासंप्रयुक्ता एवानुशयाः / / "एवं तु साधु यथा दार्टान्तिकानाम्" इति कोशकारः / कथं च दार्टान्तिकानाम् ?5 "कामरागस्यानुशयः कामरागानुशयः / न चानुशयः संप्रयुक्तो न विप्रयुक्तः, तस्याद्रव्यान्तरत्वात् / ' सुप्तो हि क्लेशोऽनुशय इत्युच्यते। प्रबुद्धः पर्यवस्थानम् / का च तस्य प्रसुप्तिः ? असंमुखीभूतस्य बीजभावानुबन्धः। कः प्रबोधः ? संमुखीभावः। कोऽयं बीजभावो नाम ? प्रात्मभावस्य क्लेशजं (जा) क्लेशोत्पादकशक्तिः, यथा चाङ्कुरादीनां शालि 1 'औपचारिको वा...' इति उपचारे भव औपचारिकः / कुत्रौपचारिक इत्याह'प्राप्तौ'। मुख्यवृत्त्या पर्यवस्थानेऽनुशयशन्दो वर्तते, उपचारेण तु प्राप्तौ / तस्यानुशयहेतु.. भावात् / Ibid. 2 'क्लेश एव' इति / आलम्बनसम्प्रयोगतश्चानुशेरत इत्यनुशया इति / Ibid. 3 After this, the Kosakara gives the following details :""तस्मात् संप्रयुक्ता एवानुशयाः / कथमिदं गम्यते ? अनुशयानां "चित्तक्लेशकरत्वादावरणत्वाच्छुभैविरुद्धत्वात् / " यस्मादनुशयैः क्लिष्टं चित्तं भवत्यपूर्वं कुशलं नोत्पद्यते उत्पन्नाच्च परिहीयते तस्मान्न विप्रयुक्ताः / अथ विप्रयुक्तैरप्येवं स्यात् / कुशलं न . कदाचिदुपलभ्येत / तेषां नित्यसन्निहितत्वात् / उपलभ्यते च / अतः "कुशलस्य चोपलम्भादविप्रयुक्ता इहानुशयाः // " इति / तदिदमज्ञापकम् / यस्माद्यो विप्रयुक्तमनुशयमिच्छति स एतत्सर्वमनुशयकृतं नेच्छति / क्लेशकृतमेवेच्छति / Akb. v. 2 a. -आचार्य आह तदिदमज्ञापकम् / यदिदं वैभाषिकरुक्तम् / , चित्तक्लेशकरत्वादित्यादि / यो हि विप्रयुक्तमनु शयमिच्छतीति वात्सीपुत्रीयः। Saks. p. 444. 4Cf. एवं तु साधु यथा सौत्रान्तिकानाम् / कथं च सौत्रान्तिकानाम ?... Akb. v. 2 a. V. supra, p. 47. n. 4. 5 This Adv. from कामरागस्यानुशयः to शालिफलोत्पादनशक्तिरिति, Is identical with Akb. v. 2 a. 6 Cf. कामरागानुसयो ति आदीसु कामरागो च सो अप्पहीनठेन अनुसयो ति कामरागानुसयो / से सपदेसु पि एसेव नयो। Yamaka A. p. 239 (SHBS. vol. xl.) 7.-7 Yasomitra gives the following comment:-कामरागस्यानुशय इति नास्ति सूत्रविरोधः। किन्तु विप्रयुक्तोऽनुशय इति प्राप्नोति / अत आह–'न चानुशयः संप्रयुक्तो न विप्रयुक्तः' इति / कथमित्याह / तस्याद्रव्यान्तरत्वात् इति / शक्तिरूपस्य बीजस्य रागादिभ्योऽनन्तरत्वात् / आत्मभावस्य आश्रयस्य क्लेशजा पूर्वोत्पन्नक्लेशजनिता क्लेशोत्पादनशक्तिः क्लेशोत्पादनाय शक्तिः ययाऽनुभवज्ञानजा स्मृत्युत्पादनशक्तिः न