________________ 254.] चतुर्थोऽध्यायः / ___[252] स्वस्मात्यागगुणापेक्षाश्चताश्चत्यार्चनादिषु / ___ विना प्रतिगृहोत्रापि फलं मैत्रीविहारवत् // ' ..तद्यथा मैत्रीविहारिणो महर्षयो न च लोकं सुखेन योजयन्त्यथ चापरिमितं पुण्यं प्रतिगृह्णन्त्येवं चैत्यादिषु तद्गुणाधिमुक्तिवशेण (न) स्वचित्तप्रसादादेव पुण्यप्रसूतिमिच्छति (न्ति) // 2 सूत्र उक्तम्-"द्वे दाने / धर्मदानमामिषदानं च / "3 तत्रामिषदानमुक्तम् / धर्मदानमुच्यते [253] धर्मदानस्वभावो वाक्तत्वनामादिगोचरः / / [V. B. 1. Fol. 103a.] . अव्याकृतस्वभावत्वान्न नामाद्यन्नदानवत् / / यथैव कुशलत्वात् त्रिकर्मस्वभावमामिषदानं नानपानम् / सुवर्णादिस्वभावं तत्, अव्याकृतत्वात् / तद्वद्वाचः कुशलत्वाद्धर्मदानं वाक्स्वभावम् / न नामकायादिस्वभावम् / / उक्तं दानमयं पुण्यक्रियादिवस्तु / शीलमयमारभ्यते / [254] शीलं शुभमयं रूपं व्याख्यातं तत्प्रभेदतः / 'कुशलमेव रूपं शीलमयं पुण्यक्रियावस्तु / तत्पुनविज्ञप्त्यविज्ञप्तिरूपम् / अविज्ञप्तिरूपमपि त्रिप्रभेदं प्रातिमोक्षध्यानानास्रवसंगृहीतम् / तदपि 1 Cf. चत्ये त्यागान्वयं पुण्यं मंत्रादिवदगृह्णति / .. . कुक्षेत्रेऽपोष्टफलदा फलबीजाविपर्ययात् // Ab. IV. 121. 2f. अप्रतिगृह्णति कस्मिश्चित्कथं परित्यागान्वयमपि पुण्यम् / किं पुनः कारणं सति प्रतिग्रहीतरि भवितव्यं पुण्येन नासति / "यदि हि पुण्यं परानुग्रहादेव स्यात्, मैत्र्याचप्रमाण्यसम्यग्दृष्टिभावनायां न स्यात्। B. Panjika, IX. 38. See Millinda, p. 98. 3 Cf. द्वे' मानि भिक्खवे दानानि / आमिसदानं च धम्मदानं च | Ang. I. p. 91. See Bodhichittotpada-sutra-sastra, p. 11. 4 Cf. धर्मदानं यथाभूतसूत्राधाक्लिष्टदेशना / Ah. IV. 125ab. On dharma-dana, see Siksha, p. 351. 5 See DhsA. III. 73-79. 6 Cf. वौःशील्यमशुभं रूपं शीलं तद्विरति द्विधा / प्रतिक्षिप्ताच्च बुद्धन विशुद्ध तु चतुर्गुणम् // Ak. IV 122. - See Dhs A. III. 95-102.