________________ 250.] . चतुर्थोध्यायः / 213 दिषु च दानम्" इति विस्तरः / उपकारित्वविशेषात् / यथा मातापित्रोरण्ये(न्ये)षां चोपकारिणां ये अटवीदुर्गकान्तारे भूतव्यसनेभ्यो निस्तारयन्ति / यदुक्तम्-'चेतनाविशेषात्फलविशेषः' इति / अथ कथं चेतनायाः विशेषो भवति ? ब्रमः : ___प्राशयादि मृदुत्वादेमंदुत्वादीनि कर्मणः // ' पन्नां (गां) खलु कारणानां मृदुत्वादिविशेषात्कर्म विशिष्यते / आशयचेतनाप्रयोगाधिष्ठानक्षेत्रपृष्ठाणां मृदुत्वादेः कर्मविशेषः / तत्राशयाभिप्रायः यथा-एवं चैवं च कुर्यां करिष्यामीति वा चेतनाया *कर्मपथं समाक्षिपति / प्रयोगस्तदधिष्ठानं कायवाक्कर्म / अधिष्ठानं कर्मपथः / क्षेत्रं यस्मै वस्तु प्रतिपाद्यते। पृष्ठं नाम यत्कृत्वा पुन: सकृदसकद्वानुकरोति / / यदुक्तम्-'आर्ये यो दानमप्रमेयफलम्' इति / अथ किमनार्येभ्यः सर्वेभ्यः प्रमेयम् ? नेत्याह-. .. [949] धर्मदात्रेऽपि बालाय पित्रे मात्रेऽथ रोगिणे। . अमेयं बोधिसत्त्वाय दानमन्य भवाय च // . एभ्यः पञ्चभ्यः पृथग्जनेभ्योऽपि दानमप्रमेयं भवति // 3 अथ कस्य कस्मै दत्वा दानमग्र्यफलं भवति ? तदभिधीयते[250] बोधिसत्त्वस्य यद्दान्न(न)मन्यस्यापि यदष्टमम् / विपश्चिद्भिस्तदाख्यातं श्रेष्ठं यच्चाहतोऽर्हते // 1cf. पृष्ठं क्षेत्रमधिष्ठानं प्रयोगश्चेतनाशय: / ___ एषां मृधिमात्रत्वात् कर्ममृधिमात्रता // Ak. IV. 118. See Millinda, p. 112, DhsA. III. 143, and Vinaya A. II. p. 439. 2 Cf, मातृपितृग्लानधर्मकथिकेभ्योऽन्त्यजन्मने / __ बोधिसत्त्वाय चामेया अनार्येभ्योऽपि दक्षिणा || Ak. IV. 118. . 3 Cf. बाहिरके कामेसु वीतरागे दानं दत्वा कोटिसतसहस्सगुणा दक्षिणा पाटिकङ्खितब्बा / सीतापत्तिफलंसच्छकिरियाय पटिपन्ने दानं दत्त्वा असखेय्या अप्पमेय्या दक्षिणा पाटिकङ्खितब्बा। को पन वादो सोतापन्ने ?.""को पन वादो तथागते अरहन्ते सम्मासम्बुद्धे ति ? M. sutta 142. __.4 Cf. अगं मुक्तस्य मुक्ताय बोधिसत्वस्य चाष्टमम् / Ak. IV.117 cd. .