________________ 212 अभिधर्मदीपे [247 यदा दाता हेतुफलसंबद्ध (न्ध)निश्चय(ये) श्रद्दधानो ददाति शीलवान् कल्याणधर्मा बुद्धवचनबहुश्रुतश्च भवति निर्मत्सरी मुक्तहस्तश्च भवति निर्वाणानुशंसः सत्कृत्य स्वहस्तं कालेन पराननुपहत्य ददाति, स खलु . [247] सत्कारादिगुणोपेतं फलं तस्मादवाप्नुते / अतः सत्कृत्य दानात्सत्कारलाभी भवति / स्वहस्तदानादुदारेषु भोगपरिभोगेषु रुचि लभते / कालदानात्कालभोगा[न] लभते / परानु पघातादनाच्छेद्यांल्लभते निरपक्षालमग्न्या (न्या)दिभिर धारणान्। एतावद्दाता विशिष्यते। कथं वस्तु ? वस्तु वर्णादिसंपन्न सौरूप्यादि फलप्रदम् // ' याद वस्तु वर्णगन्धरसस्पर्शसम्पन्न भवति तदा विशिष्यते / ततः सुरूपित्वं यशस्विता पृ(प्रि)यता सृकुमारत्वं सुखस्पर्शाङ्गता भवति यथाक्रमम् / ए[IV. A, 8 Fol. 102b.] 'वं वस्तु विशिष्ट भवति / / [248] गुणदुःखोपकाराख्यधर्मः क्षेत्रं विशिष्यते। गुणाधिकं क्षेत्र३ भवति / [ति]र्यञ्चमुपादाय यावन्मनुष्याणां गुणास्तरतमक्रमेण यावद्बुद्धस्य / यथोक्तम्- "तिर्यग्योणि (नि) गताय दानं दत्वा शतगुणो विपाकः प्रतिकाङ्क्षि [तव्यः स्यात् / दुःशीलाय . मनुष्यभूताय दत्वा सहस्रगुण: / "5 दुःखविशेषा क्षेत्रं विशिष्यते / यथो (थो)पधिषु पुण्य. क्रियावस्तुषु / 'ग्लानाय दानं ग्लानोपस्थाय कायदानं शोतलिकावर्दलिका 1 Cf. वर्णादिसम्पदा वस्तु सुरूपत्वं यशस्विता / प्रियता सुकुमार सुखस्पर्शाङ्गता ततः // Ak. JV. 116. 2 Cf. गतिदुःखोपकारित्वगुणः क्षेत्रं विशिष्यते / Ak. IV. 117. ab. 3 अस्मिन् लोके त्रिशद्विधं पुण्यक्षेत्रं भवति / माता पिता वृद्धो रोगो सत्पुरुषो वीतरागपुद्गलः सास्रवाः सप्त पुद्गलाश्चत्वारो मार्गप्रतिपन्नाश्चत्वारः फलप्रतिपन्नाः प्रत्येकबुद्धा बुद्धा बोधिसत्त्वा भिक्षुसंघोऽध्वगाः त्तट्श्रमातुराश्च / Aad. p. 32. 4 Quoted in Akb. IV. 117. ab. 5 Cf. तिरच्छानगते दानं दत्वा सतगुणा दक्खिणा पाटिकङ्कितब्बा। पुथुज्जनदुस्सोले दानं दत्वा सहस्सगुणा दक्खिणा पाटिकङ्खितब्बा। पुथुज्जनसीलवन्ते दानं दत्वा सतसहस्सगुणा दक्खिणा पाटिकङ्खितब्बा। M. sutta 142. & For the seven aupadhika-punga vaslus sec LVP Ak. IV. p. 237, n, 1.