________________ 246.] चतुर्थोऽध्यायः। 'स्वपरार्थाद्यपेक्षया'-स्वात्मपरार्थानुग्रहाद्यपेक्षया। स्वात्मानुग्रहाय परानुग्रहाय उभयानु*ग्रहा[य / आ] दिशब्दात पूजाकाम्यया चेति / स्वभावोऽपि 'कायादिकर्माविज्ञप्तिः' / क्वचित्पुनः कायवाङ्मनः कर्म / ससंप्रयोगं सपरिवारं चात्र मनस्कर्म दृष्टव्यम् / तत्पुनरेतद्दानम् प्राधान्यान्मुनिना प्रोक्त महाभोगफलं हि तत् // स्वर्गावपर्गहेतुत्वेऽपि प्राधान्यान्महाभोगतायां तद्विनियोगः / तत्पुनरेतद्दानम्[245] स्वान्योभयार्थसिद्धयर्थं दानं ददति केचन। साधुवृत्त्यनुवृत्यर्थं नोभयार्थाय चापरे // ' द्वाभ्यां खलु कारणाभ्यां स्वान्यात्महितचिकीर्षुश्च, उभयहितप्रतिपन्नश्च स एवंगुणयुक्त दानं दीयते (ददाति)। आत्मनश्च कुशलमूलोपचयार्थ परस्य चेन्द्रियमहाभूतोपंचयार्थम् / तत्र स्वहितायैव यथा पृथग्जनः परिनिर्वते भगवति चैत्याय ददाति परार्थमेव यथा अर्हन् संघाय ददाति, न चेष्टधर्मवेदनीयं भवति / उभयार्थं यदवीतरागः संघाय ददाति / नोभयार्थं यदहश्चैत्याय ददाति तच्चेन्न (तच्च न) दृष्टधर्मवेदनीयं भवति केवलं तु सत्पुरुषप्रशस्तमार्गावस्थानप्रदर्शणा(नार्थम् // तत्पुनरेतद्दानं कथं फ'लतो विशिष्यते३ ? तदुच्यते[246] दातृवस्त्वादिवशिष्टयात्तत्फलातिशयः स्मृतः। तत्र कथं दातृविशेषः कथं वस्तुविशेषः कथं क्षेत्रविशेषः ? __ श्रद्धादिभिगुणता दत्तेऽतः सत्क्रियादिभिः / 1 cf. स्वपरार्थोभयार्थाय नोभयार्थाय दोयते / Ak. IV. 114. ab. 2 कतमत् दानम् / स्वस्वामिकानां धनवस्तूनां वितरणं दानम् / तत् त्रिविधहेतोर्भवति / आत्महतोः परहेतोः परात्महतोश्च / चैत्यमंदिराणां बुद्धप्रत्येकबुद्धार्हता चोपस्थानमात्महेतोः / सत्त्वेभ्यो दानं परहेतोः / जनेभ्यो दानं परात्महेतोः। Aaa. pp. 1.2. 3 See M. Dakkhina-vibhanga-sutta, 142. 4 Cf. वाता विशिष्टः श्रद्धाद्य सत्कृत्यादि ददात्यतः। सत्कारोदाररुचिता कालानाच्छेद्यलाभिता // Ak. IV. 115. . also cf. विधिद्रव्यदातृपात्रविशेषात्तद्भेदः / Tattvartha-sutra, VIL. 34.