________________ 198 अभिधर्मदीपे [ 235. इदमिदानीं वक्तव्यम्। कतमेषां कल्पाणा(ना) मसंख्येयत्रयेण बुद्धत्वं प्राप्यते ? मोहपुरुषा इति / स्वकेऽवतारात् स्वस्यैव विनयदर्शनादपि / प्रौदार्यादपि। गम्भीर्यादविरुद्धव धर्मतेति वचनात् / यत्सूत्रेऽवतरति विनये च सन्दृश्यते / धर्मताञ्चानुलोमयतीति बुद्धभाषितलक्षणावगमेन सूत्रादिसङ्ग्रहीताया मातुः स्वभावानवधारणान्मूढः / स्याबे तनिकायग्रन्थे ‘परिमितपरिमाणसूत्रेष्वनवतारात्तथापरिच्छिन्नमाणविनयपिटके संदर्शनातथाव्यवस्थापितपुद्गलनरात्म्यादिधर्मताविलोमनेनाबुद्धवचनमहायानप्रतिक्षेपामोह इति / एवं च सति मुक्तकसूत्राण्यपि सूत्रान्तपिटकेष्वपठितत्वावबुद्ध वचनान्यभ्युपेयानि स्युस्तककस्मिन् सूत्रान्तपिटकेऽन्यानि सूत्रान्तपिटकानि न सर्वप्रकारमवतरन्ति / तथैकैकस्मिन् विनयेऽन्ये विनया न सर्वप्रकारं संदृश्यन्ते / तथैकैकस्मिन् निकाये या धर्मता व्यवस्थापिता न साऽन्येषु निकायेषु धमतां सर्वप्रकारमनुलोमयतीत्येवमष्टादशभेदभिन्नानि सूत्रविनयाभिधर्मपिटकानि परस्परं ग्रन्थार्थव्यतिभिन्नानि कथं बुद्धवचनानि सिद्धयन्तीत्यव्यापकमेतत् बुद्ध वचनलक्षणमभ्युपगच्छन्तीति मूढा एव / Aaa. pp. 260-1. ____Also cf. यद्यप्युभयसिद्धत्वमसिद्धम्। इदं तहि साधनमस्तु यद गुरुशिष्यपरंपरयाम्नायायातं बुद्धवचनत्वेन। यच्च सूत्रेऽवतरति / विनये संदृश्यते / धमतां च न विलोमयति / तद बुद्धवचनं नान्यदित्यत्राह यत्प्रत्यया च तत्रास्था महायानेऽपि तां कुरु / महायानेऽप्युक्तस्यास्थाकारणस्य विद्यमानत्वात् / इपुनः सर्वप्रवचनसाधारणमव्यभिचारि लक्षणं यदुक्तमध्याशयसंचोदनसूत्रे / अपि तु मैत्रेय चतुभिः कारणैः प्रतिभानं सर्वबुद्धभाषितं वेदितव्यम् / कतमैश्चतुभिः / इह मैत्रेय प्रतिभानमर्थोपसंहितम् भवति नानर्थोपसंहितम् / धर्मोपसहितं भवति नाधर्मोपसंहितम् / क्लेशप्रहायकं भवति न क्लेशविवर्धकम् / निर्वाणगुणानुशंससंदर्शकं भवति न संसारगुणानुशंससंदर्शकम् / 'यत्किचिन्मैत्रेय सुभाषितं सर्व तद्बुद्ध भाषितम् / तत्र य इमानि प्रतिभानानि प्रतिक्षिपेत् / नैतानि बुद्धभाषितानोति तेषु चागौरवमुत्पादयेत् / , पुद्गलविद्वेषेण तेन सर्व बुद्धभाषितं प्रतिभानं प्रतिक्षिप्तं भवति / "(see Siksha,p. 15.) "एतन्महायाने सर्वमस्तीति कथमुपादेयं न स्यात् / ...अथापि स्यात् / मदागमे बुद्धवचनत्वेऽविवादो न तु महायाने / ... सविवाद महायानमिति चेदागम त्यज। तीथिकः सविवादत्वात्स्वः परश्चागमान्तरम् / .."चतुनिकायमष्टादशभेदभिन्नं भगवत : शासनम् / तत्रैकस्यैव निकायस्यानेकभेदसंभवात् ।"एकभेदध्यवस्थितैः सौत्रान्तिकाभिधार्मिकवनयिकैः परस्परं सविवादत्वात्सूत्राभिधर्मविनयाः परित्यागमर्हन्ति / अस्ति ह्य कभेदव्यवस्थितानां सौत्रान्तिकादीनामन्योन्यं विवादः / "एतेन यदुक्तं गुरुपर्वोपक्रमेणाम्नायायातं बुद्धवचनमित्यादि। तदनेनैव प्रत्याख्यातं द्रष्टव्यम् / न ह्यविस्मृतसंप्रदायानामन्योन्यस्य विवादो युक्तः। न च सर्वज्ञवचनेषु परस्पराहतिरस्ति / न च सूत्राभिधर्म विनयानां परस्परमेकवाक्यता भवतः संभवति / तत्कथं सूत्रादिसंस्यदनं बुद्धवचनत्वे हेतुरुक्तम् ? तस्माद्यत्किचिदेतत् / B. Panjika, IX. 43-44. See Siksha, pp. 95-96.