________________ 230.] . चतुर्थोऽध्यायः। [228] युगान्तवायुणा (ना) मेरुः वह्निणा(ना) वरुणालयः / वज्रेण ध्वस्यते वज्रमविकारि तु तन्मनः // किं पर्यापन्नम्, कतरत्, कति प्रकारम्, किं पुरस्सरम्, कस्मिन्वा काले को वा तदुत्पादयति ? इत्येतदपदिश्यते [229] कामाप्तं षष्ठजं त्रेधा कृपाश्रद्धापरम्परम / . बुद्धोत्पादे नरः स्त्री वा तदाद्य चित्तमश्नुते / / ' तत्खलु बोधिचित्तमाद्यं कामधातुपर्यापन्नमेव / षष्ठजं मनोधातुज मित्यर्थः / त्रिप्रकारमुपपत्तिलाभिकं श्रुतमयं चितामयं चेति / कृपापुरस्सरेण श्रद्धाबहुलेन च मनस्कारेण संप्रयुक्तम् / बुद्धोत्पाद एव नासति बुद्धशासने / मनुष्यो वा स्त्री वोत्पादयति नान्य इति / तस्यास्य वोधिबीजस्थानीयस्य चित्तरत्नस्य सर्वधातुग" तिव्यापिबुद्धत्वमहावृक्षाराभिव द्वये भूमिजलसेकादिहेतुप्रत्ययस्थानीयान प्रज्ञादिचतुरधिष्ठान परिवारान्पारमिताद्यान्गुणान्वक्ष्यमान (ण) स्वरूपान्बोधिसत्वः क्रमेणाभ्यस्यति / कथं पुनः क्रमेन (ण) दानादिपारमितानां परिपूरिभवति ? तत्र तावत्-- [230] सर्वेभ्यः सर्वदा सर्व वदतो दानपूरणम् / प्रथमे खल्वसंख्येये वर्तमानो वोधिसत्त्वः न सर्वस्मै नापि सर्व न सर्वदा ददाति / द्वितीये सर्वस्मै सर्वदा नतु सर्वम् / तृतीये सर्व सर्वस्मे सर्वदा च प्रयच्छति / इयता दानपारमिता परिपूर्णा भवति / स्वभावं चित्तं बोधिचित्तम् / तदेव च योगिसंवृत्या आदर्शादिज्ञानसंबन्धेन कथञ्चिद् व्यावृत्त्या सर्वज्ञताचित्तमित्यादि चतुर्धा व्यपदिश्यते / सर्वमप्येतदसाधारणमगम्यं सर्वश्रावकप्रत्येकबुद्धानाम् / Aaa. p. 79. 1 cf. जम्बुद्वीपे पुमानेव संमुखं बुद्धचेतनः / चिन्तामयं कल्पशते शेष प्राक्षिपते हि तत् // Ak. IV. 109. . Aso cl. मनुस्सत्तं लिङ्गसम्पत्ति हेतु सत्यार-दस्सनं / पबज्जा गुणसम्पत्ति अजिकारो च छन्दता // अट्ठधम्मसमोधाना अभिनीहारो समिज्झति / Buddharaisa, II. 59-60. 2 See LVPAR. IV. p. 223, n. 2. 3 v. infra, Ad. karika 232. 4 Cf. सर्वत्र सर्वं ददतः कारुण्याद्दानपूरणम् | Ah. IV. 111 ab. 5 Cf. बोधिसत्त्वः सर्वदातेत्युच्यते / सर्वदानं न बहुधनं किन्तु दानचित्तम / गवेषयन्ननुत्तरां बोधिं यद्ददाति तदुच्यते सर्वदानं / Bodhichittotpada-sutra- sastra, p. 12.