________________ 186 अभिधर्मदीपे [224. मेवमुत्पादयति-अविद्यान्ध[:] कारोपहतबुद्धिनयनोऽयं लोकः स मया सम्यग्दष्टिप्रभावभासितेन शीलसंक्रमेणोत्तारयितव्यः / प्रतिघभुजङ्गदंष्ट्रा विषदूषितोऽयं लोकः स मया मैत्र्यागदेन प्रशमितव्यः / तृष्णापिशाचीललिताभिभूतमतिरयं लोकः स मया शमथवलेन तृष्णा निरोधसुखं . लम्भयितव्यः / परामर्शभूतग्रहाविष्टोऽयं लोकः स मया विमोक्षसुखस्वस्त्ययनेन निर्भयममृतपदं प्रवेशयितव्यः / मानगिरिशिखराधिरूढबुद्धिरयं लोक : स मया कर्मस्वकताज्ञानवज्रण मानगिरीन्विर्ण्य प्रशान्तमानमदामर्शशान्तिपदे स्थापयितव्यः / विचिकित्साकथंकथीभावशल्यविद्धहृदयोऽयं लोकः स मया प्रतीत्यसमुत्पादप्रविचयशलाकया काङ्क्षाशल्यमुत्पाट्यामृतरसं पाययितव्यः। जराव्याधिमरणमकरदंष्ट्रान्तर्गतोऽयं लोकः स मया सर्वानर्थवियुक्तं नितिसुखं प्रापयितव्यः / श्रद्धादिगुणधनदरिद्रोऽयं लोकः स मया बोध्यङ्गरत्नखचिते महति गुणैश्वर्यपदे सन्निवेशयितव्यः / ' इत्येतस्माद विवाद बोधिचित्तोत्पादात्प्रभृति' बौधिसत्त्वो वक्तव्य इत्याचार्यकम् // यहि शास्त्र उक्तम्- "बोधिसत्त्वः कुतः प्रभति ? यतो लक्षणवैपाक्यं३ कर्म करोति" इति / नैष दोषः / यस्मादसौ[224] यदा लाक्षणिक कर्म प्रकरोत्यनपायगः / महाकुलः समग्राक्षः स्वपर्षत्संग्रहे रतः / / " [225] पुमाञ्जातिस्मरो वाग्मी प्रज्ञावीर्य क्रियान्वितः।। यदा खल्व'यं पुरुषत्वजातिस्मरत्वादिषु पदस्थानेषु नियती भतो भवति तदा देवमनुष्याणामभिव्यक्ति निगच्छति // अतो ज्ञानप्रस्थानेऽस्मादवघेः प्रभृति बोधिसत्त्वः अनेनाभिप्रायेण पठितः। 1 Compare this style with S. IV. p. 94, S. Pundartka, pp, 118, 278; Siksha, p. 29 and B. Panjika, III. 7-9. See S. Pundarika, pp. 67; 207. For the avaivartikalingas of the Bodhisattva, see Aaa. pp. 418-420. 3 See LVP Ak. IV. p. 221, notes. 4 Cf. यच्चैतल्लक्षणविपाक कर्मेत्युक्तम् जम्बुद्वीपे पुमानेव संमुखं बुद्धचेतनः। चिन्तामयं कल्पशते शेष आक्षिप्यते हि तत् // Ak. IV. 109. . 5 Cf. सुगतिः कुलजोऽव्यक्षः पुमान् जातिस्मरोऽनिवृत् / Ak. IV. 108. cd.