________________ [217 184 अभिधर्मदीपे [217] द्वितीया तत्फलस्थस्य कर्मणा तेन चान्वयात् / तृतीयोभययुक्तस्य चतुर्थ्यनुभयस्य तु // [218] स्यात्कर्मस्वकता नापि तत्फलं वेदयिष्यति / द्वितीया चतुष्कोटिका / तत्र प्रथमा कोटिः तत्फलावस्थितस्याद्या ज्ञेया तच्चरमे फले // [219] द्वितीया ध्रुवपाकस्य तद्विपाकानवस्थिते / ... तृतीया द्वयसद्भावा चतुर्थी तूमयं विना॥ तृतीया चतुष्कोटिका-- [220] स्यात्कर्मणान्वितश्चैव नो च तत्फलवेदनम् / स्यात्खलु कर्मणा समन्वागतो न" च तस्य कर्मणः फलं वेदयते / चतुष्कोटिका। आद्या दत्तविपाकेन निरुद्धानागतादिना // [221] द्वितीया तु विहीणे (ने)न ध्र वपाकेन कर्मणा। तृतीया द्वयमुक्तस्य चतुर्थी . तु द्वयादृते // अथ यदिदं शास्त्रि(स्त्र) योगविहितमयोगविहितं च कर्मोक्त तस्य कि लक्षणम् ?. तदभिधीयते[222] अयुक्तविहितं कर्म क्लेशोपक्लेशदूषितम् / शिक्षालिङ्गा धपेतं च केचिदाहुविपश्चितः / / ' यत्किञ्चित्खलु क्लिष्टं कायवाङ्मनस्कर्म क्लेशोपक्लेशदूषितं सर्वं तदयोगविहितम, अयोनिशोमनस्कारसमुत्थापितत्वात् / अन्ये पुनर्बवते-यत्खलु शिक्षाव्यपेतं यथा गन्तव्यं स्थातव्यमित्येवमादि, यत्तु लिङ्गवचनहीनमसंबद्धं निरर्थकं च वाक्कर्म तदयोगविहितम् / विधिभ्रष्टत्वादिति / विपर्य याद्योगविहितं द्रष्टव्यमिति / / अभिधर्मदीपे विभाषाप्रभायां वृत्तौ चतुर्थस्याध्यायस्य तृतीयः पादः // 1 Cf. प्रयोगविहितं क्लिष्टं विषिभ्रष्टं च केचन। Ak. IV. 94 cd. 2 Cf. धीः प्रज्ञा / साप्युपपरीक्ष्य एव वस्तुनि प्रविचयो योगायोगविहितोऽन्यथा वेति ।""युक्तिर्योगः / सा पुनराप्तोपदेशोऽनुमान प्रत्यक्षं च / तेन त्रिप्रकारेण योगेन यो जनितः स योगविहितः।""अयोगोऽनाप्तोपदेशोऽनुमानाभासो मिथ्याप्रणिहितश्च समाधिस्तेनायोगेन जनितोऽयोगविहितः। Tub. 10 c.