________________ 216.] 183 चतुर्थोऽध्यायः / अथ यदुक्त भगवता-"कर्मस्वकोऽयं भिक्षवो लोकः" इति / ' तत्केयं कर्मस्वकता नाम ?2 तदारभ्यते[214] कुशलं वाऽथवा पापं यदतीतं ददत्फलम् / स्वं कायवाङ्मनस्कम सा कर्मस्वकता मता।। ___ यत्खलु कायवाङ्मनस्कर्म स्वयं कृतं कुशला कुशलमभ्यतीतं ददत्फलं सा कर्मस्वकता द्रष्टव्या। कथं पुनः प्रतिक्षणभिदुरेषु संस्कारेषु परस्पराकृतसङ्केतेषु सत्सु, असति च नित्ये कर्तरि भोक्तरि च कर्मस्वकताऽभिधीयते ? तदत्र प्रतिसमाधीयते[215] संवत्या स्कन्धसन्ताने तक्रियाफलदर्शणा (ना)त् / कर्तृता भोक्तृता चोक्ता निषिद्धा शाश्वतस्य तु // स्वात्माभ्युदय विशेषार्थः खलु क रिभ्यते / कश्चिदहं विशिष्टज्ञानविज्ञानसौख्यरूपकान्तिलावण्य (ण्य) सौष्ठवयुक्त जन्म प्रतिलभेयेति / शाश्वते त्वात्मनि निष्क्रिये पूर्वपश्चाद्विशेषाभावात् कर्तृत्वं चात्यन्तापध्वस्तयुक्तिविधानम् / स्कन्धसन्ताने तु विशिष् स्कन्धान्तरोत्पत्तौ सत्यां बीजजलाभिषेकाद्यनुग्रहा[द] विशिष्टफलोत्पत्तिवदिति३ / पूर्वमेवाविष्कृतमेतदिति / 4 ३"दमिदानीं वक्तव्यम्। .. [216] स्यात्कर्मस्वकता नास्ति तस्य चेति चतुष्किका। स्यात्खलु कर्मस्वकता नापि च तस्य कर्मणो विपाकेऽवस्थित इति चतुष्कोटिका। प्रथमा तत्फलस्थस्य विहाणा (ना)त्तस्य कर्मणः / / * 'यदि तस्य कर्मणः फलेऽवस्थितस्तच्च कर्म विहीनं भवति / 1Cf. भासितं पे' तं""भगवता-कम्मस्सका माणव सत्ता, कम्मदायादा, कम्मयोनी, कम्मबन्ध, कम्मपटिसरणा, कम्मं सत्ते विभजति, यदि'दं होनपणीतताया ति। Milinda. p. 69. For kamma-nanatta, see Dhs A I. 37-38. Also cf. यदुक्तं भगवता यथा सत्त्वाः कर्मस्वका कर्मदायादाः कर्मयोनीयाः कर्मप्रतिसरणाः कर्म सर्वान् विभजति उच्चनीचतया हीनप्रणीततया इति / Asm. p. 60. . For kamma-niyama, see Dhs A. III. 601-603. This topic is not discussed in Akb. The Kosakara, however, discusses trinyavarana ni and panehanantarya-karmani (Akb. IV. 96-105) which are not discussed in Adv. 3See. B. Panjika. VI. 26-30; IX.58-60. 4V. supra, p. 22, n. 1. V. infra, Adv. karikas 304-305.