________________ 182 . अभिधर्मदीपे [213 एकेनाक्षिप्यते[जन्म] भूरिभिः परिपूर्यते // ' एकेन खलु कर्मणा सकलमेकं जन्माक्षिप्यते / बहुभिस्तु परिपूर्यते / तद्यथा चित्रकर एकया वा कत्स्नं रूपमाक्षिपति, बह्वीभिः परिपूरयति तद्वदिति / ति पञ्हं समुट्ठापेत्वा निच्छेतुं असक्कोन्ता आभिधम्मिकत्थेरे उपसंकमित्वा पुच्छिसु / थेरा 'यथा एकस्मा अम्बबीजा एको व अंकुरो निक्खमति, एवं एका व पटिसन्धि होती' ति सापेसुं / अथ एकदिवसं किं नु खो नानाचेतनाहि कम्मे प्रायूहिते पटिसन्धियो नाना होन्ति उदाहु एका?' ति पहं समुट्ठापेत्वा निच्छेतुं असक्कोन्ता थेरे पुच्छिसु। थेरा यथा बहुसु अम्बबीजेसु रोपितेसु बहू अंकुरा निक्खमन्ति, एवं बहुका व पटिसन्धियो' ति सापेसुं / Dhs A. III. 588. For details, see Vipakuddhara-katha, DhsA. III. 587-650. V. supra, p. 144, n. 5. 1 Cf. एकं जन्माक्षिपत्येकमनेकं परिपूरकम् / __ नाक्षेपिके समापत्ती अचित्ते प्राप्तयो न च // Ab. IV. 95. 2 Cf. एष हि सिद्धान्तः। एकमेव जन्माक्षिपत्येकमेव च कर्म नानेक जन्मेति निकाय- . सभागस्याख्या। तत्र हि लब्धे जात इत्युच्यते / यहि स्थविरानिरुद्धेनोक्तं "सोऽहं तस्यैकपिण्डपातस्य विपाकेन सप्तकृत्वस्त्रयस्त्रिशेषु देवेषूपपन्नो यावदेताये शाक्यकुले जात" इति ? .."यथा मनुष्यो दोनारोत्थोऽनेन सहस्रं निर्विश्याह एकेन दीनारेणाहमैतदीश्वयं प्राप्त इति / ... Akb. IV. 75 a. - Also cf. विपाकस्त्रिविधो जातिरायुर्भोग इति / तत्रेदं विचार्यते-किमेकं कर्मकस्य जन्मनः कारणम ? अथैकं कर्मानेकं जन्माक्षिपतीति ? द्वितीया विचारणा-किमने कर्मानेक जन्म निर्वर्तयति ? अथाकेकं कर्मकं जन्म निर्वर्तयति ? इति / न तावदेकं कर्म एकस्य जन्मनः कारणम्, कस्मात् ? अनादिकालप्रचितस्यासंख्येयस्यावशिष्टस्य कर्मणः सांप्रतिकस्य च फलक्रमानियमात् अनाश्वासो लोकस्य प्रसक्तः, स चानिष्ट इति / न चैकं कर्मानेकस्य जन्मनः कारणम. कस्मात् ? अनेकेषु जन्मस्वकैकमेव कर्मानेकस्य जन्मनः कारणमित्यवशिष्टस्य विपाककालाभावः प्रसक्तः, स चाप्यनिष्ट इति / न चानेकं कर्मानेकजन्मकारणम्, कस्मात् ? तदने जन्म युगपन्न भवतीति क्रमेण वाच्यम्, तथा च पूर्वदोषानुषङ्गः। तस्माज्जन्मप्रायणान्तरे कृतः पुण्यापुण्यकर्माशयप्रचयो विचित्रः प्रधानोपसर्जनभावेनावस्थितः प्रायणाभिव्यक्तः, एकप्रघट्टकेन मरणं प्रसाध्य सम्मूच्छित एकमेव जन्म करोति, तच्च जन्म तेनैव कर्मणा लब्धायुष्कं. भवति / तस्मिनायुषि तेनैव कर्मणा भोगः संपद्यत इति / असो कर्माशयो जन्मायुर्भोगहेतुत्वास्त्रिविपाकोऽभिधीयते / अत एकभविकः कर्माशय उक्त इति / Yogasutra-bhashya, II. 12. For the Jaina view on this topic, see Pt. Sukhalalji Sanghavi : Yasovijaya's Vritti on roga-darshana, II. 12.