________________ 178 अभिधर्मदीपे [205. तत्पुनरेतत् [205] दुःखोपसंहृतेर्दुःखमल्पायुष्ट्वन्तु मारणात् / तेजोनाशात्कृशौजस्त्वमिदं तत्त्रिविधं फलम् // ' 'यत्तेन परस्य दुःखा वेदना जनिता ततो'नरकेषुपपद्यते / यदिष्टं जीवितमुपच्छिन्नं ततोऽल्पायुः / यत्तेजो नाशितं तेन बाह्या भावाः कृशौजसः / एवमन्येषामपि योज्यम् / ___ कुशलानामपि कर्मपथानामेवमेव तत्फलत्रयं विपर्ययेण लक्षयितव्यम / प्राणिवधविरत्या सेवितया देवेषुपपद्यते / सचेदित्थत्वमागच्छति मनुष्याणां सभागतां दीर्घायुर्भवति / तदाधि पत्येनंव बाह्या भावा महोजसो भवन्तीति / सर्व विपर्ययेण द्रष्टव्यम् / / 3 अत्र पूर्व याणि (नि) पञ्च फलान्युक्तानि तेषां कतरत्कर्म कतिभिः फलैः सफलम् ? [206] प्रानन्तर्यपथे कर्म फलवत्पञ्चभिः फलैः। चतुभिस्त्वमलेनायं तद्वदन्यच्छभाशुभम // 1 Cf. दुःखनान्मारणादोजोनाशनात् त्रिविधं फलम् / Ak.. IV. 85 cd. Cf also, Yogasutra, II. 34. . 2 See Saks. pp. 419-420. 3 The Kosakara discusses one more point: यद्भगवता 'मिथ्यावाङ मिथ्याकर्मान्तो मिथ्याजीव" इत्युक्तं कोऽयमन्यस्ताभ्यां मिथ्याजीवः ? Akb. IV. 86. This is not discussed in Adv. 4 यानि पूर्व पञ्च फलान्युक्तानीति / अधिपतिफलम् / पुरुषकारफलम् / निष्यन्दफलम / विपाकफलम् / विसंयोगफलं च / . Saku. p. 421. The Kosakara has dealt with this topic in the II kosasthana : विपाकोऽव्याकृतो धर्म : सत्त्वाख्यो व्याकृतोद्भवः। निःष्यन्दो हेतुसदृशः विसंयोगः क्षयो धिया // यद्बलाज्जायते यत्तत्फलं पुरुषकारजम् / अपूर्वः संस्कृतस्यैव संस्कृतोऽधिपतेः फलम् // Ak. II. 57-58. The Adv. also might have contained a discussion on this topic in the last pada of the Second Adhyaya, which is lost. V. supra, p. 114, n. 4. 5 Cf. प्रहाणमार्गे समले सफलं कर्म पञ्चभिः / चतुभिरमलेऽन्यच्च सास्रवं यच्छुभाशुभम् // Ak. IV. 87.