________________ 177 204.] चतुर्थोऽध्यायः। [204] कुरून्सनरकान्हित्वा सर्वत्रान्यत्र ते द्विधा।' करून हित्वा नरकांश्च / अन्यत्र गतौ संमुखीभावतो ह्येते सप्त कुशलाः कर्मपथा विद्यन्ते / संवरनिर्मुक्ता एव तु तिर्यक्प्रेतेषु / संवरसंगृहीता एव रूपघातावन्यत्रोभयथा। ते खल्वेते द्विविधा कर्मपथाः सर्वे विपाकनिष्यन्दाधिपत्यफलदा दश // 'तत्राकुशलः सर्वैरासे वितैर्भावितैर्बहुलीकृतैर्न रकेषुपपद्यते तदेषां विपाकफलम् / सचेदित्थत्वमागच्छति स मनुष्याणां सभागताम्, प्राणातिपातेनाल्पायूष्को भवति / अदत्तादानेन भोगव्यसनी। काममिथ्याचारेण सपत्नदारः। मृषावादेनाभ्याख्यानबहुलः। पैशून्येनादृढमित्रः। पारुष्येना(णा) मनोज्ञशब्दश्रावी / संभिन्नप्रलापेनानादेयवाक्यः। अभि घ्यया तीव्ररागः / व्योपादेन तीव्रद्वेषः। मिथ्यादृष्ट्या तीव्रमोहः। इतीदमेषां णि(नि)ष्यन्दफलम्। - प्राणातिपातेनात्यासेवितेन बाह्या भावा अल्पौ जस्का भवन्ति / अदत्तादानेन परीत्तफला अल्पसस्यां अशनिबहुलाः / काममिथ्याचारेण रजोऽवकीर्णाः / मृषावादेन दुर्गन्धाः। पैशून्येनोत्कूलनिकूलाः। पारुष्येन (ण) दुःस्पर्शाः कण्डक प्रायाश्च / संभिन्नप्रलापेन विषमपरिणामाः। अभिध्यया पचितफलाः / व्यापादेन कटुकमफलाः। मिथ्यादृष्टया बीजादपकृष्टफला अफला वा / इदमेषामाधिपत्यफलम् / / 1cf. संमुखीभावतश्चापि हित्वा सनरकान् कुरून् / Ak. IV. 84 cd. 2.Cf. सर्वेऽधिपतिनिष्यन्दविपाकफलदा मताः। Ak. IV. 85 ab. 3 This whole Adv. (karika 204 cd.) is almost identical with Akb. IV. 85ab. . 4 Cf. पाणातिपातकम्मं नाम निरये तिरच्छानयोनियं पेनिविसये असुरकाये च निम्बत्तेति, मनुस्सेसु निब्बत्तट्टाने अप्पायुकसंवत्तनिक होति / Jataka, I. p. 275. Also cf. पाणातिपातो भिक्खवे आसेवितो भावितो बहुलीकतो निरयसंवत्तनिको तिरच्छानयोनिसंवत्तनिको पेत्तिविसयसंवत्तनिको। यो सब्बलहुसो पाणातिपातस्स विपाको मनुस्सभूतस्स अप्पायुकसंवत्तनिको होति / Aig. IV. p. 247. For other references, see LVP Ak. IV. pp. 185 ff. V. supra, p. 90, n. 5. 5 विपाकफल मिति सत्त्वसंताने। इदं निष्यन्दफलमिति बाह्यं तद्वस्त्विति न तद्विपाकफलम् / Saks. p. 418. & See Digha, XVI. 17. 7 For details, see Saks. pp. 419-420. 12