________________ 208.] चतुर्थोऽध्यायः। - 179 __ प्रहाणमार्गे' समले पञ्चभिः फलैः कर्म सफलं भवति / तुल्या अधिका अपि तस्य पश्चादुत्पन्नाः सदशा धर्मा णि (नि)ष्यन्दफलम् / विपाकफलं स्वभूमिनियतो विपाकः / विसंयोगफलं यत्क्लेशप्रहाणम् / पुरुषकारफलं ये तबलसमुत्पन्ना धर्माः। न तथा सहभुवः / यच्चानन्तरोत्पन्नो विमुक्तिमार्गः, यच्चानागतं भाव्यते, यच्च तत्प्रहाणं तबलेन हि तत्प्राप्त्यु पत्तिः / अधिपतिफलं स्वभावादन्ये सर्वसंस्काराः पूर्वोत्पन्न व[IV. B, 4. Fol. 98 a.]र्जा इति द्रष्टव्यम् / प्रहाणमपि तन्मार्गस्याधिपतिफलं युज्यते / तदाधिपत्येन तत्साक्षात्करणादित्यन्ये / यत्तु निर्मलप्रहाणमार्गे कर्म तच्चतुभिः फलैः सफलं विपाकफलं मुक्त्वा / 'तद्वदन्यच्छभाशुभम् / ' अन्यदपि सास्र यच्छ्भाशुभम, यच्च प्रहाणमार्गादन्यत्कुशलसास्रवं [कम] यच्चाकुशलं तदपि चतुभिरेव फलैः सफलं विसंयोगफलं त्यक्त्वा / / [207] ततोऽन्यन्निर्मलं ज्ञेयं त्रिभिरव्याकृतं तथा / " शेषं पुनरणा (ना)स्रवं यत्प्रहाणमार्गादन्यत्, यच्चाव्याकृतं तत्त्रिभिर्विपाक [वि] संयोगफलं मुक्त्वा / फलं शुभस्य चत्वारि द्वे त्रीणि च शुभादयः // " कुशलस्य कर्मणः कुशला धर्माश्चत्वारि फलानि विपाकफलं हित्वा / अकुशला द्वे पुरुषकाराधिपतिफले। अव्याकृतास्त्रीणि निष्यन्दविसंयोगफले हि त्वा / / [208] शुभाद्यास्त्वशुभस्य द्वे त्रीणि चत्वारि च क्रमात् / / 1 प्रहाणार्थं मार्गः प्रहीयन्ते वाऽनेन क्लेशा इति प्रहाणमार्ग आनन्तर्यमार्गः। Akb. IV. 87..V. infra, Ad. karika 439. 2 ससमले in the Ms. 3 समाधिजा उत्तरे सदृशा धर्माः। Akb. IV. 87.--समाधिजग्रहणं असमाधिजनिरासार्थम् / सदृशग्रहणमनास्रवाव्याकृतनिरासार्थम् / Sakv. p. 21. .. 4-4 Cf. पुरुषकारफलं तदाकृष्टा धर्मास्तद्यथा अधिमुक्तिमार्गः तत्सहभुवश्च / यच्चानागतं भाव्यते तच्च प्रहाणम् / Akb. IV. 87.-सहभुव इति / संप्रयुक्ताश्च तत्र वेदनादयः / विप्रयुक्ताश्च जात्यादयः / यच्चानागतं भाव्यत इति / अनागतो धर्मस्तद्वलेन प्राप्यत इति / तस्य तत्पुरुषकारफलम्, अत एव तच्च प्रहारणं पुरुषकारफलं व्यवस्थाप्यते / न केवलं विसंयोगफलमिति.I Sakv. p. 421. 5 Cf. अनास्रवं पुनः शेषं त्रिभिरव्याकृतं च यत् / चत्वारि द्वे तथा त्रीणि कुशलस्य शुभादयः // Ak. IV. 88. 6. Cf. अशुभस्य शुभाद्या व त्रीणि चत्वार्यनुक्रमम् / AR. IV. 89 ab.