________________ 167 199.]. चतुर्थोऽध्यायः। येण सर्वेण सर्वं समुच्छेत्स्यते / यस्य समुच्छेदात्समुच्छिन्नकुशल मूल' इति संख्यां गमिष्यतीति / अतः सर्वाकुशलमूलभूता मिथ्यादृष्टिरिति सौगताः / / word anu-sahagata. The Adv. has anusahagata. In Pali anu is frequently spelt anu. See anusahagato ka marago (Kv. I. 1.-p. 81) and anusahagato asmiti mano (S. III. p. 131.) See LVPAK. II. p. 245, n. 2. 1. This topic is discussed in detail by the Kosakāra:किं स्वभावः कुशलमूलसमुच्छेदः ? सोऽसमन्वयः। यदा हि कुशलमूलानां प्राप्तिन पुनरुत्पद्यते अप्राप्तिरप्युत्पद्यते / तस्मिन्नसमन्वागम उत्पन्ने समुच्छिन्नानि कुशलमूलान्युच्यन्ते / Akb. IV 80 b. कमालम्बनया मिथ्यादृष्टया समुच्छिद्यन्ते ? फलहेत्वपवादिन्या या च हेतुमपवदते या च फलं"। आनन्तर्यविमुक्तिमार्गस्थानीये एते इत्यपरे / सास्रवालम्बनयैव नानास्रवालम्बनया सभागधात्वालम्बनयैव न विसभागधात्वालम्बनया। संप्रयोगमात्रानुशायित्वेन दुर्बलत्वादित्येके / एवन्तु वर्णयन्ति --- सर्वया नवप्रकाराण्यपि कुशलमूलानि समुच्छिद्यन्ते / दर्शनप्रहातव्यवदित्येके / कमशो नवप्रकारया मिथ्यादृष्ट्या नवप्रकाराणि कुशलमूलानि समुच्छिद्यन्ते / भावनाहेयक्लेशवत् / यावदघिमात्राधिमात्रया मृदुमृदूनीति / " [v. supra, p. 765, p. 2.] दर्शनमार्गवदभ्युत्थानेन च्छिनत्तोत्येके / एवन्तु वर्णयन्ति / उभयथेति / पूर्वसंवरं विजहाति पश्चात्कुशलमूलानि समुच्छिनत्तीत्येके। . एवन्तु वर्णयन्ति / यस्य चित्तस्य फलसंवरत्यागात्तस्य त्याग इति / ..... मनुष्येष्वेव नापायेषु / न देवेषु"। त्रिषु द्वीपेषु नोत्तरकुरौ।" Akb. IV. 79. ab. ? This refers to the Vaibhashikas as is evident from the following: एवं तु वर्णयन्ति वैभाषिकाः / 'सर्वया' इति / या च हेतुमपवदते या च फलं या च सभागं धातुमालम्बते या च विसभागं या च सास्रवं या चानास्रवमालम्बते / सर्वैव तया समुच्छिद्यन्ते / Saks. p. 412. It appears that the Vaibhashikas held two different views regarding the manner in which the kusala-mulas were annihilated : 'दर्शनप्रहातव्या इव' इति / यथा दुःखादिदर्शनहेयाः क्लेशा नवप्रकारा अपि दुःखादिसत्यदर्शनात् सकृत् प्रहीयन्ते, तद्वन्नवप्रकाराण्यपि कुशलमूलानि सकृत् समुच्छिद्यन्त इत्येके / " ['क्रमशः'] 'भावनाहेयक्लेशवत्' इति [एके] |" Ibid. The Adv. favours the second view. See LVP Ak. IV. p. 170. ff.