________________ 199.] . चतुर्थोऽध्यायः / 'तया पुनर्मिथ्यादृष्टया प्रकर्षप्राप्तया नव प्रकारया नवप्रकाराणि कुशलमूलानि समुच्छिद्यन्ते / ' भावनाहेयक्लेशहाणवत् / यत्तहि शास्त्र उक्तम्-"कतमान्यधिमात्राण्यकुशलमूलानि यैरकुशलमूलैः कुशलमूलानि समुच्छिात्ति?३ कामवेराग्यं चानुप्राप्नुवन् यानि तत्प्रथमत उपलिखति ?"4 नैष दोषः / अकुशलमूलाध्याहृतत्वात् / मिथ्यादृष्टेस्तेष्वेव तत्क*र्मोपचर्यते / तद्यथाऽग्निरेव ग्रामस्य दग्धा चौरास्तु तस्याध्याहारकास्तद्वदिति / 1-1 Cf. मूलच्छेदस्त्वसदृष्टया कामाप्तोत्पत्तिलाभिनाम् | Ab. IV. 79 ab. 2 Cf. क्रमशः। नवप्रकारया मिथ्यादृष्टया नव प्रकाराणि कुशलमूलानि समुच्छिद्यन्ते / भावनाहेयक्लेशवत् / यावदधिमात्राधिमात्रया मृदुमृदूनीति / एवमयं ग्रन्थः पालितो भवति"कतमान्यणुसहगतानि कुशलमूलानि आहारैरकुशलमूलैः कुशलानि समुच्छिन्नानि पूर्वपश्चा. द्विजहाति यः विकीर्णैः समुच्छिन्न कुशलमूल इति संख्यां गच्छति ?" इति / Akv. IV.79 d. -भावनाहेयक्लेशवदिति / यथा नव प्रकारेण मार्गेणाधिमात्राधिमात्रक्लेशप्रकाराः प्रहीयन्ते, यावदधिमात्राधिमात्रेण मृदुमृदुः। एवं नवप्रकारयाऽपि मिथ्यादृष्ट्या नवप्रकाराणि कुशलमूलानि समुच्छिद्यन्ते / मृदुमृव्या मिथ्यादृष्टयाऽधिमात्राधिमात्रः कुशलमूलप्रकारः समुच्छिद्यते / Saks. p. 412. For a controversy on this theory of gradual purification(क्रमशः भावनाहेयक्लेशप्रहाणम्), see Ky. I. 4; II. 5. .. 3.Cf. अस्य तर्हि ग्रन्थस्य को नयः -"कतमान्यधिमात्र'""समुच्छिनत्ति" इति? समाप्तिमेतत्सन्धायोक्तम् / तैनिरवशेषच्छेदात् / एकोऽपि हि प्रकारस्तेषामनुपच्छिन्नः सर्वेषां पुनरुत्पत्ती हेतुः स्यादिति / Akb. IV.79 d. 4 Quoted in Akb. IV. 79 ab and 79 d. This is a passage from Jnanaprasthana, 2, 8; Vibhasha, 35, 5, (See LVPAK. IV. p. 170). 5 मिथ्यादृष्टया कुशलमूलसमुच्छेद इत्येवमर्थं वक्तुकाम उपोद्घातं ब्रवीति ।"कि तहि शास्त्र उक्तमिति / यदि मिथ्यावृष्ट्या कुशलमूलसमुच्छेदो नाकुशलमूलः, यच्च शास्त्र उक्तम्-येरकुशलमूलः कुशलमूलानि समुच्छिनत्ती'त्यादि / तानि हि लोभादिस्वभावानि / न मिथ्यादृष्टिस्वभावानीत्यर्थः। 'अकुशलमूलाध्याहृतत्वादिति विस्तरः। अकुशलमूलैर्लोभादिभिरधिमामिथ्यादृष्टिरध्याहृताऽपनीता। तस्मात्, अकुशलमूलाध्याहृतत्वान्मिध्यादृष्टः 'तेष्वेव तत्कर्मापदेशः', तेष्वेवाकुशलमूलेषु / मिथ्यादृष्टेः वुशलमूलसमुच्छेदकं यत्कर्म तस्यापदेशः / Saks. p. 411.