________________ 197.]. चतुर्थोऽध्यायः / 161 ये खल्विमे माहकीमातृसूत्रा'दिष्वष्टावनार्या व्यवहाराः प्रोक्ताः, अष्टौ चार्याः- "अदष्टे दृष्टवादिताऽनार्यो व्यवहारः। अश्रुते, अमते, अविज्ञाते, श्रुतमतविज्ञातवादिताऽनार्यो व्यवहारः। दृष्टश्रुतमतविज्ञाते चादृष्टादिवादिताऽनार्यो व्यवहारः / विपर्ययेण त्वष्टावेवार्या व्यवहाराः / 2 तेषां पुनरिदं लक्षणं व्याख्यायते [197] दृष्टया श्रुत्यादिभिश्चाक्षर्मण (न) सा यच्च गृह्यते / दृष्टं श्रुतं मतं ज्ञातमित्युक्तं तद्यथाक मम // ' 1 The Kosakara quotes the Mahakimatrishtra:-"तत् किं मन्यसे माहकीमात: यानि त्वया चक्षुषा रूपाणि श्रोत्रेण शब्दा"मनसा धर्मा"। अत्र च ते माहकीमातः दृष्टे दृष्टमात्रं भविष्यति श्रुते मते विज्ञाते. "विज्ञातमात्रम्' इत्युक्तम् / Akb IV. 75. There is a similar passage in the Samyutta-nikaya, but addressed to Malukyaputta and not to Mahakimata :--एत्थ च ते मालुक्यपुत्त दिद्वसुतमुतविचातेसु धम्मेसु दिट्टे दिमत्तं भविस्सति / सुते सुतमत्तं "मुते मुतमत्तं ' विआते विज्ञातमत्तं भविस्सति / S. IV. p. 73. See LVPAb. IV. p. 160, n. 2. 2 Cf. अट्ठि'मे भिक्खवे अनरियवोहरा। कतमे अट्ठ ? अदिढे दिलुवादिता, अस्सुते सुतवादिता, अमुते मुतवादिता, अविचाते विजातवादिता, दिढे अदिवादिता, सुते असुतवादिता, मुते अमुतवादिता, विचाते अविज्ञातवादिता / अट्टि'मे भिक्खवे अरियवोहारा। अदिट्टे अदिट्टवादिता 'विचाते विज्ञातवादिता / Ang. II. p. 246. 3 Cf चक्षुःश्रोत्रमनश्चित्तरनुभूतं त्रिभिश्च यत् / तदृष्टश्रुतविज्ञातं मतं चोक्तं यथाक्रमम् // Ak. 1V. 75. .."यत् घ्राणजिह्वाकायविज्ञानस्तन्मतम् / कि कारणम् / गन्धरसस्प्रष्टव्यान्यन्याकृतत्वान्मृतकल्पानि / अत एतेषु मताख्येति वैभाषिकाः। किमत्र ज्ञापकम् / सूत्रं युक्तिश्च / सूत्रं तावत्- "तत् किं मन्यसे माहकोमातः.." [see abov, n. 1.] विज्ञातमात्रम्" इत्युक्तम् / अतस्त्रिषु विषयेषु दृष्टश्रुतविज्ञातशब्दापदेशाद् गन्धादिषु मताख्या गम्यते / अत एवं चानिष्यमाणे दृष्टादिभावबाह्यत्वात् गन्धादिषु व्यवहारो न स्यादित्येषा युक्तिः / सूत्रं तावत् ज्ञापकमन्यार्थत्वात् / न ह्यत्र सूत्रे भगवान् व्यवहाराणां लक्षणं शास्ति स्म / कि हि / यत्र च ते षड्विधे विषये चतुर्पु व्यवहारेषु दृष्टयादिव्यवहारमात्रं भविष्यति न प्रियाप्रियनिमित्ताध्यारोप इत्ययमत्र सूत्रार्थो दृश्यते / किं पुनर्दृष्टं किं च यावद्विज्ञातम् / केचित्तावदाहुः-- "यत्पञ्चभिरिन्द्रियैः प्रत्यक्षं तद् दृष्टम् / यत् परत आगमितं तच्छ्रुतम् / यत् स्वयं युक्त्यनुमानतो रुचितं तन्मतम् / यन्मनःप्रत्यक्षभावेनाधिष्ठितं प्रत्यात्मवेद्यं तद्विज्ञातम्" इति / एते च पञ्च विषयाः प्रत्येकं दृष्टा इति वा कृत्वा व्यवह्रियन्ते। श्रुता मता विज्ञाता इति वा। षष्ठोऽन्यत्र दृष्टादिति / अतो नास्ति गन्धादिषु व्यवहाराभावप्रसङ्गः / तस्माद्युक्तिरप्येषा युक्तिर्न भवति / पूर्वाचार्या एवमाहुः-"दृष्टं यत् प्रत्यक्षीकृतं चक्षुषा /