________________ अभिधर्मदीप [196 धर्मः 'इति चेत् / न / तद्रूपासिद्धत्वात्, अभिव्यक्त्यमुपपत्तेश्च / क्रियामात्रमपूर्वमिति चेत् / न / क्रियाया नित्यत्वानुपपत्तेनिरुक्त्यनुपपत्तेश्च / / - प्रत्यक्ताऽन्यधनादानमदत्तादान मुच्यते // ' अभ्रान्त्येति वर्तते / यदि बलचौर्यबुद्ध्या परद्रव्यं स्वीकरोति / / [196] परस्त्रीगमनं काममिथ्याचारो विकल्पवान् / अगम्यगमनं खल्वपि काममिथ्याचारः / स च बहुप्रकारविकल्पो भवति / अगम्यां गच्छति मातरं वा दुहितरं वा परपरिगृहीतं(तां) वा स्वामप्यनङ्गे गच्छत्यदेशे च / नियमस्थां वा / अभ्रान्त्येत्युक्तम् / *अर्थज्ञायाऽन्यथावादो द्रोहबुद्ध्या मृषावचः // वक्तुं(क्तृ)श्रोतृबुद्ध्यपेक्षया खलु मृषावादो भवति / यदि वक्ताऽर्थानामभिज्ञो भवति स तं विगोप्य द्रोहबुद्ध्याऽन्यथा ब्रूते / श्रोता च तथैवावगच्छति / तदास्य मृषावादः कमपथो भवति / / . .."जैमिनीया इत्थमाचक्षते / या हिंसा गााद् व्यसनितया वा क्रियते सेवाधर्मानुबन्धहेतुः प्रमादसंपादित्वात् शौनिकलुब्धकादीनामिव / वेदविहिता तु हिंसा प्रत्युत धर्महेतुः देवतातिथिपितॄणां प्रीतिसंपादकत्वात् तथाविधपूजोपचारवत् ।""अत्र प्रकट एव स्ववचनविरोधः / तथाहि / हिंसा चेद्धर्महेतुः कथम् धर्महेतुश्चेद्धिसा कथम् ?... अथ अचिन्त्यो हि मणिमन्त्रोषधीनां प्रभावः इति वचनाद्वैदिकमन्त्राणामचिन्त्यप्रभावत्वात् तत्संस्कृतपशुवधे संभवत्येव स्वर्गप्राप्तिरिति चेत् / न। इह लोके विवाहगर्भाधानजातकर्मादिषु तन्मन्त्राणां व्यभिचारोपलम्भाददृष्टे स्वर्गादावपि तद्व्यभिचारोऽनुमीयते / / Syadvadamarijari, karika 11. 1 See Sabara-bhashya, I, 1. 1. . 2 See Ibid, II. 1. 5. Also see : कर्मभ्यः प्रागयोग्यस्य कर्मणः पुरुषस्य वा / योग्यता शास्त्रगम्या या परा साऽपूर्वमिष्यते // Tantravartika, II. 15. For details, see Nyayavatara-vartika-vritti, pp. 179-181. . 3 Cf. अदत्तादानमन्यस्वस्वीक्रिया बलचौर्यतः। स्तूपादपहरतो बुद्धाददत्तादानम् / Akb. IV. 73 cd. 4 Cf. अगम्यगमनं काममिथ्याचारश्चतुर्विधः। AR. IV. 74 ab. 5 Cf. अन्यथासंज्ञिनो वाक्यमर्थाभिज्ञे मृषावचः / Ak. IV. 74cd, & Akb. Iv. 74 cd. discusses one more topic : Farfase agat auf वाक्यं भवन्तीति कतमः तत्र कर्मपथः ?