________________ 195.] . चतुर्थोऽध्यायः। 159 बुद्धिपूर्वात्प्रानि (णि)वधाद्धर्मोऽपि भवतीति याज्ञिकाः।' कथम् विषभक्षणवत् / तद्यथा किञ्चिद्विषभक्षणं मन्त्रपूर्वं हिताय भवति / किञ्चिदहिताय यदमन्त्रपूर्वं तद्वदिति / न / गलामे डनशस्त्रनिपातमन्तरेण मन्त्रमात्रकेन पशुवधसामर्थ्यादर्शणा (ना)त / पिष्टमयच्छागा [IV B, 2 Fol. 96 a]'हुतिमात्रेण पशुवधादियज्ञधर्मोत्पत्त्यसामर्थ्याच्च / किञ्च, विषस्य मारणजीवितशक्तिद्वयसामर्थ्यदर्शणा (ना)त् / तत्र मन्त्रपूर्वकं किञ्चिज्जीवयति किञ्चिदुदुर्गतारिष्टेषु न जीवयति / अमन्त्रपूर्वकमपि किञ्चोज्जीवयति किञ्चिन्न जीवयति / [भुक्त] विषस्यापेक्षि[क] त्वात् / किञ्च, शबरादिमन्त्राणां विषमारणाशक्त्यु पवातेऽपि पापप्रणाशनशक्त्यदर्शणा(ना)त् / किञ्च, हिंसाहिंसयोर्धर्माधर्मस्वालक्षण्यापरित्यागभूतत्वात् / जुहोत्यादिक्रियाव्यङ्गयो संभवस्ततो मिथ्यादृष्टेरभावः सुगतशिष्याणाम् / यस्मान्न कश्चिन्मिथ्या प्रतिपद्यते प्रेक्षापूर्वकारी मिथ्येति संचिन्त्य / संसारमोचकगलकर्तकयाज्ञिकप्रभृतीनां च प्राणिवधकारिणां धर्म इत्येवं संचेतयतामधर्मोऽयमिति एवं वा संचेतयतां नावद्यं स्यात्, अन्याभिसंधित्वात् / "संविद्रते च स्फुटमेवं सौगताः-प्रमादारम्भयोरवश्यंभावी प्राणवध इति / तथा बुद्धस्य ये शोणितमाकर्षयन्ति वपुषः सुगतोऽयमित्येवं विज्ञाय तेषामवीचिनरकगतिकारणमानन्तर्यकमबुद्धेरबुद्धित्वादेव न स्यात्। इष्यते चानन्तर्यकम् / [v. supra, p. 156, n. 5.] अथ बुद्धोऽयमित्येवंविधबुद्धेरभावेऽपि संशयितस्याश्रद्दधतश्चासंचेतंयतो भवेदानन्तर्यकम्। तदेवमसंचेतितवधो भ्रान्तिवधश्च प्राणातिपाताद्यवद्यहेतुतया ग्राह्यौ। अन्यथा बहुत्रुटयति बुद्धभाषितमिति / " तस्मादेनःपदमेतद् वसुबन्धोरामिषगृद्धस्य गृध्रस्येवाप्रेक्षाकारिणः / अयं पुनरप्रसंग एव मूढेनोपन्यस्तः-शिरोलुञ्चनाद्य पदेशे शास्तुः कद्धस्येवाधर्मप्रसंग इति यतस्तत्राज्ञानादिप्रमादासंभवोऽत्यन्तमेव शास्तरि / ध्वस्तरागद्वेषमोहेनापि भगवता मुमुक्षूणां कर्म निजरोपायत्वेन तपो देशितम / कुतोऽवद्यप्राप्तिरप्रमत्तस्येति / " "ज्वलनोप्येतावता दृष्टान्तीकृतोऽप्रतिबद्धदहनस्वभावः स्पृश्यमानो बुद्धिपूर्वकमन्यथा वा दहत्येव / एवं प्राणातिपातोपि हि प्रमत्तेन प्रयत्नरहितेन क्रियमाणः कर्तारमवश्यंतयाऽवद्येन योजयत्येवेति दृष्टान्तार्थः / अबुद्धिपूर्वकता च प्रमत्तता।... Tattvartha-ltka, VII. 8. For full details, see jmanabinduprakarana, pp. 76-97. The Kosakara does not deal with the view of the Yajnika in such details. 2 v. infra, Adv. karika 563. Mallishena too forwards similar arguments against the Yajnikas :-अधुना. मीमांसकभेदाभिमतं वेदविहितहिंसाया धर्महेतुत्वमुपपत्तिपुरस्सरं निरस्यन्नाह न धर्महेतुविहितापि हिंसा नोत्सृष्टमन्यार्थमपोद्यते च / स्वपुत्रघातान्नृपतित्वलिप्सा सब्रह्मचारिस्फुरितं परेषाम् //