________________ - 193] चतुर्थोऽध्यायः / प्राणात्यये त्स (स) वंधनापहारे पञ्चानृतान्याहुरपातकानि // ' इति / पैशून्यादयस्तु मिथ्यादृष्टिप्रवर्तिता मोहजा यश्च वेदाद्यसच्छास्त्रप्रलापः / [अभिध्याद्यास्त्रिमूलजाः / / अभिध्यादयस्तु लोभादनन्तरसंभूतत्वात् त्रिमूलजाः / उक्ताः[अ] कुशलाः कर्मपथाः। [192] [कुशलाः प्रयोगपृष्ठाश्च कुशलत्रयमूलजाः] / कुशलानां तु प्रयोगः पृष्ठं च त्रिमूलोत्थम् / तेषां कुशलचित्तसमुत्थितत्वात्, तत्र च तद्भावात् / केन पुनरेषां कर्मपथानां समाप्तिर्भवति ? तदिदमपदिश्यते द्वेषेण वधपारुष्यव्यापत्तीनां समापनम् // " प्राणातिपातपारुष्यव्यापादानां खलु द्वेषेण निष्ठा भवति / परित्यागपरुषचित्तसंमुखीभावात् // . [193] स्तेयस्यान्याङ्गनायातेरभिध्यायाश्च लोभतः / / 9 Also quoted in Akb. IV. 64d. Mallishena in his Syadvada-manjari, (karika 7) quotes this verse in a similar context. Cf. उद्वाहकाले रतिसंप्रयोगे प्राणात्यये सर्वधनापहारे / विप्रस्य चार्थे ह्यनूतं वदेयुः पश्चानृतान्याहुरपातकानि // Vasishthasmyiti, XVI. 31. 2 This line (191 d) is missing in the Ms. Cf. तदन्तरसंभूतेरभिध्याद्यास्त्रिमूलजाः | AR. IV 69 ab. This line (192 ab) is missing in the Ms. Cf. कुशलाः सप्रयोगान्ता अलोभद्वेषमूलजाः। AR. IV. 69 cd. तद्यया श्रामणेर उपसंपाद्यमानो उपाध्यायं याचते यावदेकं कर्मवाचनं क्रियते द्वितीयं च / अयं प्रयोगः / तृतीयकर्मवाचने या विज्ञप्तिस्तत् क्षणिका चाविज्ञप्तिरयं मौल: कर्म पथः। तत ऊद्धर्व यावन्निश्रया आरोच्यन्ते तदधिष्ठानं च विज्ञापयति अविज्ञप्तिश्च यावदनुवर्तते इदं पृष्ठम् / Akb. IV. 69 cd. 5 Cf. वधव्यापादपारुष्यनिष्ठा द्वेषेण लोभतः। Ak. IV. 70 ab. 6 Cf. परस्त्रीगमनाभिध्याऽवत्तावानसमापनम् / Ak. IV. 70 cd.