________________ अभिधर्मदीपे [191. __'प्रयोगस्तेषामकुशलमूलत्रयाज्जातः। तत्र लोभजः प्राणातिपातस्तच्छ रीरावयवार्थ मृगलुब्धानामौरभ्रिकमात्सिकशाकुन्तकादीनां च / द्वेषजो यथा वैरणि ( निर्यातनार्थम् / मोहजो याज्ञिकाणां(नां) धर्मबुद्धया राज्ञां च धर्मपाठकप्रामान्या(ण्या)द्धिसताम् / पारसीकादीनां च धर्मबुद्धया मातरं पितरमभिन्नताम् / लोभजमदत्तादानं यस्तेनार्थी' तद्धरति / द्वेषजं वैरनिर्यातनार्थम् / मोहजं यथा राज्ञां धर्मपाठकप्रामाण्याद् दुष्टणि (नि)ग्रहार्थम् / यथा च दुष्टब्राह्मणा आहुः-"सर्वमिदं प्रजापतिना ब्राह्मणेभ्यो दत्तं ब्राह्मणानां दौर्बल्यावृषलाः परिभञ्जन्ते / तस्मादपहरन् ब्राह्मणः स्वमादत्ते स्वमेव तु को[IV. A, 1. Fol. 95 b.]ष्ठं वस्ते स्वं ददाति" इति / 4 / लोभ जः काममिथ्याचार: परदारादिषु तत्संरागादब्रह्मचर्यम् / द्वेषजो वरणि ( निर्यातनार्थम् / मोहजो यथा पारसीकानां मात्रादिगमनम् / गोसवे च यज्ञे "उपहा उदकं चूषयति, तृणानि च्छिनत्ति, उपैति मातरमुपस्वसारमुपस, [गोत्रा]दि (मि)ति / मृषावादादयो लोभजा द्वेषजाश्च यथा पूर्वमुक्तम् / मोहजो मृषावादो यथाह"न नर्मयुक्तमनृतं हिनस्ति _न स्त्रीषु राजन्न विवाहकाले। 1 This whole Adv. (karika 191 c.) substantially agrees with Akb. IV. 68 d. 2 Cf. पारसीकानां च / ते ह्येवमाहुः-."मातापितरौ जीर्णो वा ग्लानी वा हन्तव्यो" इति / Akb. IV. 68 d. See LVPAK. IV. p. 145, n. 2. 3 यो येनार्थी स तद्धरति in Akb. Ibid. 4 Cf. दुष्टनिग्रहार्थं यथा ब्राह्मणा आहुः-"सर्वमिदं ब्रह्मणा"तस्मादपहरन् ब्राह्मणः स्वमादत्ते स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च" इति। न चैषामपरस्वसंज्ञा भवति / Akb. Ibid. See Syadva damanjari, karika 7. Also of. स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च / आनृशंस्याब्राह्मणस्य भुञ्जन्ते हीतरे जनाः // Manusmriti, I. 101. 4 For a discussion on the authenticity of this quotation, which is also quoted in Akb. IV. 18 d, see LVPAK IV. p. 147, n. 2. Cf. प्रथैष गोसवः। स्वर्गकामो हैतेन यजेत / तस्य व्रतम् / उप मातरम् इयाद् उप स्वसारम् उप सगोत्राम उपावहायोदकम आचामेद्, उपावहाय तृणान्य आच्छिन्द्यात् / यत्र यत्रनं विष्ठा विन्देत्, तत् तद् वितिष्ठेत / अनडुहो ह लोकं जयति / तेन हैतेन जनको वैदेह इयाक्षांचक्रे / Jaiminiya Brahmana, II. 113. (pp. 207-8. Nagpur edition, 1954.)