________________ 191.] चतुर्थोऽध्यायः / 153 सामन्तकः खलु यदा तीव्रण पर्यवस्थानेन' प्रयोगमारभते, प्रसादेन वा घत रसेन तदा द्विस्वभावा / यदा मृदुना तदा विज्ञप्तिरेव / विपर्ययेण तु पृष्ठेष्ववश्यमविज्ञप्तिः / यदि पुनः कर्मपथं कृत्वा पुनस्तत्रवानुचेष्टते स्याद्विज्ञप्तिरपी ति / तीव्रण तू प्रहारेण जीविताद्वयपरोपयति / तत्र या विज्ञप्तिस्तत्क्षणिका चाविज्ञप्तिः स मौल: कर्मपथः / द्वाभ्यां हि कारणाभ्यां प्राणातिपातावद्येन स्पृश्यते / प्रयोगतः फलपरिपूरितश्च / तत ऊर्ध्वमविज्ञप्तिक्षणः (णाः) पष्ठीभवन्ति / यावद्धतं पशुं कृष्णाति शोधयति विक्रीणाति पचति खादति कीर्तयति / यदि तावदस्य विज्ञप्तिक्षणा अपि पृष्ठं भवन्ति / एवमन्येष्वपि यथासंभवं योज्यम्। अभिध्यादीनां नास्ति प्रयोगो न पृष्ठं संमुखीभावमात्रादेव कर्मपथाः / सूत्रे भगवतोक्तम्- "प्राणातिपातो भिक्षवस्त्रिविधः। लोभजो द्वेषज मोहजः, यावन्मिथ्यादृष्टिः” इति / तत्रयां कर्मपथानां केषाञ्चिल्लोभेन निष्ठा, केषाञ्चिद् द्वेषेण, केषाञ्चिन्मोहेन / सर्वेषामपि प्रयोगस्तु त्रिमूलोत्थः 1 पर्यवस्थानेनेति आह्रीक्यादिना / Saltv. p. 401. 2 प्रयोगस्य मौलः कर्मपथः फलपरिपूरिः। यो हि प्रयुज्यते मौलं कर्मपथं न जनयति तस्य प्रयोगफलमस्ति न तु फलपरिपूरिः / Ibid. 3 'एवमन्येष्वपि' इति / यथा तावदिह कश्चित् परस्वं हर्तुकामो मञ्चादुत्तिष्ठति शस्त्रं गृह्णाति, परगृहं गच्छति। सुप्तो न वेत्याकर्णयति / परस्वं स्पृशति / यावन्न स्थानात्प्रच्यावयति / तावत्प्रयोगः। यस्मिस्तु क्षणे स्थानात्प्रच्यावयति तत्र या विज्ञप्तिस्तत्क्षणिका चाविज्ञप्तिरयं मौलः कम पथः / द्वाभ्यां हि कारणाभ्यां अदत्तादानावद्येत स्पृश्यते प्रयोगतः फलपरिपूरितश्च / ततः परमविज्ञप्तिक्षणाः पृष्ठं भवन्ति / यावत्तत्परस्वं विभजते गोपयति / अनुकीर्तयति वा तावदस्य विज्ञप्तिक्षणा अपि पृष्ठं भवन्तीति / Ibid. p. 402. For a full discussion on karma, karmadvara and karmapatha, see Dhs A. III. 92-172. After this, the Kosakara discusses one more point in detail : मरणभवस्थे तस्मिन् प्राणिनि ये विज्ञप्त्यविज्ञप्ती ते कर्मपथ आहोस्विन्मृते ? This is not discussed in Adv. See Saks. p. 402 and LVPAK. IV. pp. 142-4. . 6 Quoted in Akb. IV. 68c. 7 Cf. 'मूलता' ति पाणातिपातो दोसमोहवसेन द्विमूलको होति / अदिन्नादनं दोसमोहवसेन वा लोभमोहवसेन वा। मिच्छाचारो लोभमोहवसेनेव / मुसावादो दोसमोहवसेन वा लोभमोहवसेन / अभिज्झा मोहवसेन एकमूला; तथा व्यापादो। मिच्छादिट्ठि लोभमोहवसेन द्विमूला ति / Dhs A. III. 162. SeeAsm p. 55. 8cf प्रयोगस्तु त्रिमूलजः / AR. IV. 68 d.