________________ चतुर्थाध्याये तृतीयपादः। इदमिदानी वक्तव्यम् / ये एते दशकर्मपथा एषां कति विज्ञप्तिस्वभावाः कत्यविज्ञप्तिस्वभावाः कत्युभयस्वभावाः ? तत्राकुशलानां तावत्-- [190] कारिताः षडविज्ञप्तिद्वात्मकस्तेऽपि षट् कृताः।' तत्र प्राणातिपातादत्तादानमषावादपैशन्यपारुष्यसंभिन्नप्रलापाः। एते नावश्यं विज्ञप्तिस्वभावाः / परेण कारयतो मौलीविज्ञप्त्यभावात् / काममिथ्याचारस्तु नित्यं द्वयात्मकः, तस्य परेणाशक्यत्वात् / तेऽपि 'षट् कृताः, यदा स्वयमेव प्राणातिपातादीन् षट् कर्मपथान् करोति तदा द्वयात्मानो भवन्ति / विज्ञप्त्यविज्ञप्तिस्वभावत्वात् / / कुशलानां पुनः शुभाः सप्त द्विधा ज्ञेया एकवै (ध)ते समाहिताः / सप्त खलु रूपिणः कुशलाः कर्मपथाः द्विधा भवन्ति / विज्ञप्त्यधीनत्वात् समाहित शीलस्य। ध्यानानास्रवसंवरसंगृहीतास्त्वविज्ञप्तिस्वभावा एव। समाहितस्य विज्ञप्त्यभावात्। [191] या सामन्तेष्वविज्ञप्तिः पृष्ठेषु तु विपर्ययः / / 1 Cf. अशुभाः षडविज्ञप्तिः द्विधैकस्तेऽपि कुर्वतः / Ak. IV. 67 ab. 2 cf. अकुशलाः षट् कर्मपथा अवश्यमविज्ञप्तिस्वभावाः / Ab. IV. 67 ab. 3 'मौलविज्ञप्त्यभावात्' इति / यस्मान् मौली कर्मपथसंगृहीता विज्ञप्तिर्नास्ति / आज्ञापनविज्ञप्तिस्त्वस्ति प्रयोगमार्गसंगृहीतेति वैभाषिकसिद्धान्तः / Saks. p. 401. 4 Cf. द्विविधाः सप्त कुशला अविज्ञप्तिः समाधिजा // Ak. IV. 67 cd. 5 Samadana in Akb. 'विज्ञप्त्यधीनत्वात् समादानशीलस्य' इति / शीलं हि द्विविधम् / समादानशीलं प्रातिमोक्षसंवरो धर्मताशीलं च ध्यानानासवसंवरौ। समादानशीलं विज्ञप्त्यधीनम् ।""धर्मताशीलं तु न विज्ञप्त्यधीनम् / Saks. p. 401. 6 Cf. सामन्तकास्तु विज्ञप्तिरविज्ञप्तिर्भवेन वा। विपर्ययेण पृष्ठानि / Ak. IV. 68 abc. Adv. karika 191ab. substantially agrees with Akb. IV.68 abc.