________________ 19.] चतुर्थोऽध्यायः। 151 कस्मात्पुनरर्हत एव मौनेयाणि (नि) ? तस्य परमार्थमुनित्वात् / ' स खलु सर्वक्लेशज़ल्पोपरमान्मुनिरित्युच्यते / एषा पुनमौणे (ने) यशौचेयदेशना मिथ्यामौनशौचाभियुक्तानधिकृत्यदेशितेति तदेतत्सह मौनेयशौचे यनिर्दिष्यते // [189] शुभं तत्साऽनभिध्यादि प्रोक्तं सुचरितत्रयम् / ____ द्वयंमौलमदः कर्म मार्गा दश शुभाशुभाः // द्वयं पुनरेतत्सुचरितदुश्चरिताख्यं यन्मौ[Iv. B, 1. Fol. 95 a.]'लं ते दश शुभाश्चाशुभाश्च कर्मपथा भवन्ति प्रयोगपृष्ठवाः / तत्र कायसुचरितस्य प्रदेश : पृयोगपृष्ठाख्यो मद्यादिविरतिदानेज्यादिकः / वाक्सुचरितस्य पृ(प्रि)यवचनादिकः / मनःसुचरितस्य शुभा चेतना। . कायदुश्चरितस्यापि परेषां जीवितभोगदाराऽ[पहार]प्रयोगपृष्ठाख्यः / वाग्दुश्चरितस्याप्यप (प्रि) यवचनाद्याख्यः। *मनोदुश्चरितस्याप्यकुशलं मनस्कमै ...... स्तेषां नात्यौदारिकत्वात् / / यस्तु प्राणातिपातादत्तादानकाममिथ्याचारविरत्याख्यौ (ख्यो) मौलः स कुशलः कर्मपथः, तस्यौदारिकत्वेन महानुशंसतमफलत्वात् / यस्तु परेषां जीवितभोगपरदारापहारकायपरिस्पन्दः स मौलः स चाकुशलः कर्मपथः / एवं यथा संभवमन्येषां द्रष्टव्यमिति // [अभिधर्मदीपे विभाषाप्रभायां [वृत्तौ] चतुर्थाध्यायस्य द्वितीयः पादः। खया अनासवं चेतोविमुत्ति पाविमुत्ति दिठेव धम्मे सयं अभिजा सच्छिकत्वा पवेदेति / इदं वच्चति भिक्खवे मनोमोनेय्यं / Ang. I. p. 273. ...."चित्तसंखारनिरोधो सजावेदयितनिरोधसमापत्ति मनोमोनेय्यन्ति वेदितब्बा। Aig. A. II. p. 372. . 1 Cf. कायवाङ्मनोमौनेययोगाच्च शाक्यमुनिः / Asa. p. 160. सर्वकल्पनाविरहात्समारोपापवादान्तद्वयमौनात्, अशैक्षकायवाङ्मनःकर्मलक्षणमौनत्रययोगाद्वा मुनिर्बुद्धो भगवान् / B. Panjika, IX I. 2f. विपर्ययात्सुचरितं तदौदारिकसंग्रहात् / दश कर्मपथा उक्ता यथायोगं शुभाशुभाः॥ Ak. IV. 66. 3 दस अकुसल कम्मपथा। पाणातिपातो, अदिन्नादानं, कामेसु मिच्छाचारो, मुसावादो, पिसुणा वाचा, फरुसा वाचा, सम्फप्पलापो, अभिज्जा, व्यापादो, मिच्छादिट्ठि / / दस कुसलकम्मपथा। पाणातिपाता वेरमणी--पे०-सम्फप्पलापा वेरमणी, अनभिज्झा, अव्यापादा, सम्मादिट्ठि। Digha. XXXIII. 3.3. See Dhs A. III. 142-172. X A blank space of about five letters in the Ms.