________________ 148 अभिधर्मदीपे [188. प्रकारोऽस्ति तावदस्य प्रहाणं नोपलभ्यते। तच्चैतदसत् / प्रहीणं हि तत्, न तु विहीनम् / अतः समुदाचरतीति / ' गतमेतत् // ' सूत्र उक्तम्-"त्रीणि दुश्चरितानि / कायदुश्चरित वाङ्मनोदुश्चरितम् / एवं सुचरितानि" इति / तेषां कः स्वभावः ? तत्र तावत् [188] कायाद्यकुशलं कर्म सर्व दुश्चरितं मतम् / सर्वमिति ससामन्तकमौलपृष्ठमित्यर्थः / अभिध्यादीन्यपि त्रीणि मनोदुश्चरितत्रयम् // सर्वमेवाकुशलं कायकर्म कायदुश्चरितम् / एवं वाङ्मनोदुश्चरितम् / अकर्मस्वभावान्यपि त्वभिध्यादीनि मनोदुश्चरितस्वभावानि / .. "अभिध्यादय एव कर्मस्वभावानि" इति स्थितिभागीयाः / तच्च न, कर्मक्लेशकत्वदोषात् / स्थितिभागीया णा(ना)म शाक्याः स्व (श्व ?) लांगुलिक. द्वितीयनामानः। ते खल्वभिध्यादीनि मनस्कर्मस्वभावानोच्छन्ति / तेषां प्राप्तिच्छेदे विसंयोगप्राप्तिरुत्पद्यते। तस्य च कृष्णशुक्लस्य कर्मणोऽन्यस्यापि चानिवृताव्याकृतस्य सास्रवस्य धर्मस्य विसंयोगप्राप्तिरुपपद्यत इति वर्णयन्ति / एवं चतुर्थ्यानवैराग्येष्वपि वक्तव्यम् / Saks. p. 398. 1.1 This comment is not found in Akb. 2 After this, the Kosakara in Akb. IV. 63, gives various views about the klishna-karma and its vipaka, 3 Cf तीणि दुच्चरितानि / कायदुच्चरितं वचीदुच्चरितं मनोदुच्चरितं / तीणि सुचरितानि / कायसुचरितं वचीसुचरितं मनोसुचरितं Digha. XXXIII. 1.10. 4 Cf. सर्व सुचरितत्रयम् / अशुभं कायकर्मादि मतं दुश्चरितत्रयम् / अकर्मापि त्वभिध्यादिमनोदुश्चरितं त्रिधा // Ak. IV. 6 + d, 65. 5 Cf. अकर्मस्वभावमप्यस्ति त्रिविधं मनोदुश्चरितं चेतनार्थान्तरभूतं, अभिध्या व्यापादो मिथ्यादृष्टिश्च / अभिध्यादय एव मनस्कर्मेति दार्टान्तिकाः / संचेतनीयसूत्रे वचनात / Akb. IV. 65 cd. 'सञ्चेतनीयसूत्रे वचनात्' इति / “सञ्चेतनीयं कर्म कृत्वोपचित्वा नरकेषुपपद्यते ? कथं च भिक्षवः सञ्चेतनीयं कर्म कृतं भवत्युपचितम् / इह भिक्षव एकत्यः संचिन्त्य त्रिविधं कर्म कायेन करोत्युपचिनोति, चतुर्विधं वाचा, त्रिविधं मनसा" इति विस्तरेणोक्त्वाह"कथं भिक्षवस्त्रिविधं मनसा सञ्चेतनीयं कर्म कृतं भवत्युपचितम् / यथाऽपीहैकत्योऽभिध्यालुर्भवति व्यापन्नचित्तः यावन्मिथ्यादृष्टिः खलु भिक्षव इहैकत्यो भवति विपरीतदर्शीति" विस्तरः। न चान्यद् अभिध्यादिव्यतिरिक्तं तत्र मनस्कर्मोक्तमिति 'अभिध्यादय एव मनस्कम' दति दाष्टान्तिकाः सौत्रान्तिकविशेषा इत्यर्थः / Saks. p. 400. V. supra, p. 47, n. 4.