________________ 146 अभिधर्मदीपे [185 [185] सपाकमशुभं कृष्णं सपाकं रूपज सितम् / शुभाशुभं द्विधा काये(मे) निर्मलं तत्प्रहाणकृत् // ' अशुभं खलु कर्म एकान्तेन कृष्णं क्लिष्टत्वात् / कृष्णविपाकं चामनोज्ञविपाकत्वात् / रूपाप्तन्तु शुभमेकान्तेन शुक्लम्, अकुशलेनाव्यव' कीर्णत्वात् / शुक्लविपाकं च मनोज्ञविपाकत्वात् / आरूप्याप्तं कस्मान्नोच्यते ? यत्र हि द्विविधोऽस्ति विपाकः-अन्तराभविकश्चोपपत्तिभविकश्च; त्रिविधस्य च कायवाङ्मनस्कर्मणस्तत्रवोक्तमिति। "कामाप्तं शुक्लं कुष्णशुक्लमकुशलव्यवकीर्णत्वात्, कृष्णशुक्ल विपाकं व्यवकीर्णविपाकत्वात् / " सन्तानत एतद्व्यवस्थापितं न स्वभावतो न ह्येवंजातीयकमेवं कर्मास्ति विपाको वा यत्कृष्णं च स्याच्छुक्ल च, अन्योन्यविरोधात् / / ननु चैवमकुशलस्यापि कर्मणः कुशलव्यवकोर्णत्वात्कृष्णशुक्लत्वं प्राप्नोति ? नावश्यमकुशलं कुशलेन व्यवकोर्यते / कामधातौ त्वस्य बलवत्वात्कुशलन्तु व्यवकीर्यते दुर्बलत्वादिति / ___अनास्रवं कमैषां त्रयाणां कर्मणां क्षयाय प्रहाणाय संवर्तते / तद्ध्यकृष्णमक्लिष्टत्वादशुक्लं विपाकशुक्लताऽभावात् / आभिप्रायिकोऽप्येश (ष) [5] शुक्लशब्दः। उक्त तु भगवता महत्यां शून्यताया मशैक्षधर्माणा (ना) रभ्य 1Cf. कृष्णशुक्लादिभेदेन पुनः कर्म चतुर्विधम् // , अशुभं कामरूपाप्तं शुभं चैव यथाक्रमम / . कृष्णशुक्लोभयं कर्म तत्क्षयाय निरानवम | Ak IV. 59 cd, 60, 2 This whole Adv. karika 185 is almost identical with Akb. IV. 60. 3 Akb. has. तदपि तूरुतं सूत्रान्तरे- 'कामाप्तं शुक्ल, व्यवकीर्णविपाकत्वात् / " 4 Cf. कण्हसुक्कविपाकं ति सुखदुक्खविपाक; मिस्सककम्मं हि कत्वा अकुसलेन तिरच्छानयोनियं मङ्गलहत्थिट्टानादिसु उत्पन्नो कुसलेन पवत्ते सुखं वेदियति, कुसलेन राजकुलेपि निब्बत्तो अकुसले पवत्त दुक्खं वेदियति / Ang. A. III. p. 212. Also cf. कृष्णशुक्लं कृष्णशुक्लविपाकं कर्म कतमत् / कामप्रतिसंयुक्तं कर्म यत् कर्म वा आशयतः प्रयोगतो वा शुक्लं यत् कर्म वा प्रयोगतः कृष्णमाशयतः शुक्लम् / Asm. p. 59. 5 Cf. अकृष्णशुक्लाविपाकं व्यामिश्रं कर्म कतमत् / प्रयोगानन्तर्यमार्गेऽनास्रवं कर्म / Ibtd. Also cf. कतमं च भिक्खवे कम्मं अकण्हं -- असुक्कं अकण्ह-असुक्कविपाकं कम्म कम्मक्खयाय संवत्तति ? यदिदं सत्त सम्बोज्झंगा-सतिसम्बोज्झंगो-पे-उपेक्खासम्बोज्झंगो। Ang. II. p. 237.-अकण्हं असुक्कं ति कम्मक्खयकरं चतुमग्गनाणं / Ang. A.III. p. 212. See Yoga-bhashya, IV. 7 and Aaa. p. 47. 6 महाशून्यतार्थसूत्रे। Saks. p. 398.