________________ 145 184.] . चतुर्थोऽध्यायः / [184] कुशलस्याविचारस्य चैतसिक्येव वेदना। विपाकः कायिकी त्विष्टा 'दुःखवेद्यस्य कर्मणः / / ' कुशलं खल्वविचारं कर्म ध्यानान्तरात्प्रभृति यावद्भवाग्रम् / तस्याविचारस्य कुशलस्य कर्म [ण]श्चतसिक्येव वेदना विपाकः। कस्मान्न कायिकी ? तस्याः अवश्यं सवितर्कविचारत्वात् / कायिक्येव त्वशुभस्य दुःखवेदनायस्य कायिक्येव वेदना विपाकः / कस्मान्न चैतसिकी ? चैतसिकं हि दौमण(न) स्यं न विपाकः / / यस्त (त्त)हि कर्मवशात्सत्त्वानां चित्तक्षेपः तत्संप्रयुक्ता वेदना कथं न विपाकः ? न हि तत्र चित्तं कर्मणो विपाकः / किं तर्हि ? यो महाभूतातां प्रकोपः स विपाकः / ततस्तज्जातं चित्तं विपाकशब्देनोपचर्यते / / पुनश्चतुर्विधं कर्मोक्तम्-"अस्ति कर्म कृष्णं कृष्णविपाकम् / अस्ति शुवलं शुक्लविपाकम् / अस्ति कर्म कृष्ण शुक्लं कृष्णशुक्ल विपाकम् / अस्त्यकृष्णमशुक्लमविपाकं कर्म कर्मक्षयाय संवर्तते" इति / तत्र 1cf. कुशलस्यावितर्कस्य कर्मणो वेदना मता। विपाकश्चैतसिक्येव कायिक्येवाशुभस्य तु // Ak. IV. 57. 2-2 This whole passage (upto न विपाकः) is almost identical with Akb. IV. 57. The latter has avitarka instead of avichara. After 'कस्मान्न चैतसिकी?'. the Akb. has : तस्य हि दुःखा वेदना विपाकश्चैतसिकी च दुःखा वेदना दौर्मनस्यम् / न च दौर्मनस्यं विपाक इति व्याख्यातमेतत् / This topic (daurmanasya) was perhaps discussed in the lost portions of Adv. V. supra, p. 52, n. 4. 3 Cf. चित्तक्षेपो मनश्चित्ते स च कर्मविपाकजः। . भयोपघातवैषम्यशोकैश्चाकुरुकामिनाम // Ak. IV. 58. .."यदि मनो विक्षिप्यते कर्मविपाकजश्च चित्तक्षेपः / कथं न चैतसिकी वेदना विपाकः प्राप्नोति ? नहि ब्रूमस्तदेव चित्तविपाक इत्यपि तु यो महाभूतानां प्रकोपः स विपाकः / तस्माज्जातमतो विपाकजम् / "एवं चेदं चतुष्कोटिकं युज्यते| Abk. IV. 58. See Saku. p. 396 and Milinda, p. 137. 4 Cf. चेतनाय सम्पयुत्तधम्मानं पन कम्मभावो कम्मचतुक्केन दीपितो। वुत्तं हेतंचत्तारिमानि भिक्खवे कम्मानि मया सयं अभिजा सच्छिकत्वा पवेदितानि, कतमानि चत्तारि? अस्थि भिक्खवे कम्मं कण्हं कण्हविपाक, अत्थि "सुक्क सुक्कविपाक, अत्थि भिक्खवे कम्मं कण्हसुक्कं कण्हसुक्कविपाक, अस्थि भिक्खवे कम्मं अकण्हमसुक्कं अकण्ह असुक्कविपाकं कम्मं कम्मक्खयाय संवत्तति / [Ang. II. pp. 230-1] Dhs A. III. 117.