________________ 144 अभिधर्मदीपे [183 कीदशे पुनस्तत् क्षेत्रे विशिष्टं भवति यत्र दृष्टे धर्मे विपाको विपच्यते ? बुद्धप्रमुखस्तावद्भिक्षुसंघो। 'निरोधव्युत्थितादौ च सद्यः कालफलक्रिया।' पञ्चसु च पुद्गलेषु कृतं निरोधसमापत्त्य [III. B. 8. Fol. 94a] रणामैत्रीदर्शनमार्गादहत्फलाढ्युत्थितेषु कारापकारा' दृष्टधर्मवेदनीयफला भवन्ति / निरोधसमापत्तेः खलु व्युत्थितः परा शान्ति लभते / निर्वाणसदृशधर्मानुभवनात् / अरणाव्युत्थितस्याप्यप्रमाणसत्त्वहिताध्याशयप्रवृत्ता सन्ततिर्वर्तते / एवं [मंत्री] व्युत्थितस्य / स्रोतआपन्नस्यापि निर्मलज्ञानलाभात्। अर्हतोऽपि सर्वक्लेशप्रहाणान्निर्मला वर्तन्ते / / नियतविपाकस्य च कर्मणः शुभाशुभस्य या भूमिस्तदत्यन्तवैराग्यात्तत्कर्म दष्टे धर्मे विपच्यत इत्यतः [113] तद्भूम्यपुनरुत्पत्तः दृष्टधर्मवेदनीयं संगृहोतं भवति / कीदृशं पुनरेतत्कर्म ? . विपाकनियतं च यत् / तच्चतत्कर्म विपाकनियतं द्रष्टव्यम् / तच्च दृष्टफलं विद्यात् दृष्टे धर्मे खलु तस्य विपाको विपच्यते / कतरत्पुनरेतत् ? कर्माद: परिपूरकम् // नाक्षेपकमिति // विपाकः खलु वेदनाप्रधान इत्यत इदं विचार्यते / स्यात्कर्मणश्चत. सिक्येव वेदना विपाको न कायिकी.? स्यात्कायिक्येव न चतसिकी स्यादित्याह 5 For this word, see Siksha. p. 87. 2 This passage (from कीदृशे पुनस्तत्) is almost identical with Akb. IV. 56 After this, the Akb. has : शेषस्य तु भावनामार्गस्यापरिपूर्णस्वभावफलत्वाच्च तद्वयुत्थितानां न तथा प्रत्यग्राश्रयपरिवृत्तिशुद्धाशयसंततिर्वर्तते इति न ते तथा पुण्यक्षेत्रं भवन्ति / Akb. IV. 56. See Asm. p. 58. 3 Cf. तभूम्यत्यन्तवैराग्याद्विपाके नियतं हि तत् / Ak. IV. 55 cd, 4 V. supra, p. 143, n. 3. 5 आक्षेपकं कर्म कतमत् / येन फलविपाकोऽभिनिर्वर्तते। परिपूरकं कर्म कतमत् / येनोपपन्न इष्टानिष्टफलं वेदयते / Asm. p. 54.