________________ 182.] . चतुर्थोऽध्यायः। / 143 तत्र कामावचरोऽन्तराभवः द्वाविंशतिविधं कर्माक्षिपति / पञ्च गर्भावस्थाः कललाबूंदघनपेशीप्रशाखावस्थाः।' पञ्च जातावस्थाः। बाल्यकौमारयुवमध्यमस्थ'विरावस्थाः / ता एता नियतानियतभेदेन विशतिराक्षिप्यन्ते, एकनिकायत्वात् / अत एवान्तराभववेदनीयं कर्म नोक्तम्। उपपद्यवेदनीयेनैव तस्याक्षेपात् // कीदृशं पुनः कर्म नियतं भवत्यनियतं वा ? 181] यदारौद्रचित्तन कर्माभीक्ष्णं निषेव्यते / ____ सत्क्षेत्रे क्रियते यच्च फलं तस्य नियम्यते // 3 यदि कर्म रौद्रेण तोव क्लेशानुगतेन चित्तेन कृतं भवति, यच्च घनश्रद्धा. सलिलाभ्युक्षितेन क्रियते, यच्च मृद्वप्य भीक्ष्णं निषेव्यते, यच्च किञ्चिद्गुणेवति क्षेत्रे क्रियते शुभमशुभं वा फलं तस्य कर्मणो नियम्यते / / अथ दृष्टधर्मवेदनीयं कर्म कीदृशमित्युच्यते[182] क्षेत्राशयविशेषाच्च फलं सद्यो विपच्यते / 'निरोधव्युत्थितादौ च सद्यः कालफल क्रिया // तत्र क्षेत्रविशेषाद्यथा५ द (?) क्षजातकादिषु। आशयविशेषाद्यथा बकलात (?) स्योक्षणि (निर्मोचनांदिषु / ... 1 See Saku. p. 319 and S. I. p. 206. 2 Cf. तच्चतदन्तराभविकं कर्म यन्नियतमेकादशविधमुक्तं दृष्टधर्मवेदनीयं तद्वेदितव्यम् / कि कारणम् / निकायो ह्यक एव सः। एक एव ह्यसौ निकायसभाग एककर्माक्षिप्तो यश्चान्तराभवो याश्च तदन्वया दशावस्थाः / अत एवान्यदन्तराभववेदनीयं कर्म नोक्तम् / Akb. IV. 53 d. . 3 Cf. तीव्रक्लेशप्रसादेन सातत्येन च यत्कृतम् / . गुणक्षेत्रे च नियतं तत्पित्रो_तकं च यत् // Ak. IV. 54. Also cf. यदुक्तं सूत्रे नियतवेदनीयं कर्म इति / कतमे नियमाः ? कर्मक्रियानियमः विपाकप्रतिसंवेदनानियमः अवस्थानियमश्च / Asm. p. 54. 4 Cf. दृष्टधर्म फलं कम क्षेत्राशयविशेषतः / ये निरोधारणामंत्रीदर्शनार्हत्फलोरियताः / तेषु कारापकारस्य फलं सद्योऽनुभूयते // Ak ]V, 55 ab and 56. 5 Cf. दृष्टधर्मवेदनीयं कर्म क्षेत्रविशेषाद्वा भवति / यथा संघस्त्रीवादसमुदाचाराद्वयंजनपरिवृत्तिः श्रूयते / आशयविशेषाद्वा। यथा शण्ढस्य गवामपुंस्त्वप्रतिमोक्षणात् पुम्भावः / Akb. IV. 55 ab. . 6 The reading is doubtful. ..