________________ 140 अभिधर्मदीपे [ 178. अदुःखासुखवेदनीयं खलु कर्म चतुर्थध्यानादधोऽप्यस्ति तृतीये द्वितीये प्रथमे च ध्याने' / परिनिर्वते उपेक्षायां च स्थितः परिनिर्वाति / किञ्च, 'युगपत् त्रिविपाकेष्टेः।' उक्त हि-"स्यात् त्रयाणां कर्मा (म)णामपूर्वाचरमो विपाको विपच्येत / स्यात्सुखवेदनीयस्य रूपं, दुःखवेदनीयस्य चित्तचैतसिका धर्माः, अदु:खासुखवेदनीयस्य चित्तविप्रयुक्ताः" इति / अतोऽप्यस्त्यधस्ताददुःखासुखवेदनीयं कर्म। किञ्च, 'ध्यानान्तरविपाकतः।' नहि ध्यानान्तरे। उपे[III. A, 7. Fol. 93b.]क्षामन्तरेण विपाकोऽन्या वेदना विपच्यते / तत्र सुखदुःखयोरभावात् / / [178] पुनश्चतुविधं कम दृष्टवेद्यादिभेदतः / ध्यानान्तरकर्मणो ध्यान एव सुखेन्द्रियं विपाक इत्येके / नैव तस्य वेदना विपाक इत्यपरे / तदेतदुच्छास्त्रम् / शास्त्रे हि पठितं-"स्यात्कर्मणश्चैतसिक्येव वेदना विपाको विपच्येत / स्यात्कुशलस्यावितर्कस्य कर्मणः" इति / अपूर्वाचरमः पाकस्त्रयाणां चेष्यते यतः / / Akb. IV. 48. See Saks. pp. 390-1. 1 Cf. उपेक्खा पन बसविधा होति–छळंगुपेक्खा ब्रह्मविहारुपेक्खा बोझंगुपेक्खा विरियुपेक्खा संखारुपेक्खा वेदनुपेक्खा विपस्सनुपेक्खा तत्रमज्झत्तुपेक्खा झानुपेक्खा पारिसुद्धि. उपेक्खा ति / 'इति इमालु उपेक्खामु 'झानुपेक्खा' इध [ततियज्झाने] अधिप्पेता / ... एत्थाह-ननु चायं अत्थतो तत्रमज्झत्तुपेक्खा व होति ? सा च पठमदुतियज्झानेसु पि अत्थि"। सा कस्मा न वुत्ता ति? अपरिव्यत्तकिच्चतो""वितक्कादीहि अभिभूतत्ता। Dhs A. III. 349-354. 2 For a controversy related to this, see, Ko. XXII. 3.-इदानि आनेञ्जकथा नाम होति / तत्थ भगवा चतुत्थज्झाने ठितो परिनिब्बायीति सल्लक्खेत्वा अरहा आनेजे ठितो परिनिब्बायतीति येसं लद्धि, सेय्यथा पि एकच्चानं उत्तरापथकानं / KvA. XXII. 3. 3 Quoted in Akb. IV, 48 cd. अपूर्वाचरम इति / युगपदित्यर्थः / सुखवेदनीयस्य रूपमिति चक्षुरादिकम् / दुःखवेदनीयस्य""पञ्चविज्ञानकायिकाः / दोर्मनस्याविपाकत्वात् / ..."चित्तवित्रयुक्ता इति जीवितेन्द्रियादयः। Saks. p. 391. 4 For a controvery on Dhy anantara, see Kv. XVIII. 7.-इदानि झानन्तरिककया नाम होति / तत्थ येसं समये पञ्चकनये पञ्च झानानि विभत्तानि, केवलंतयो समाधी उद्दिठ्ठानि, अवितक्कविचारमत्तस्स समाधिनो ओकासं अजानन्तानं पठमस्स च दुतियस्स च झानस्स अन्तरे झानन्तरिका नाम एसा ति लद्धि, सेय्यथा पि सम्मितीयानञ्च अन्धकानं / Kv A. XVIII, 7. See Points of Controversy, p. 329. & After this, the Kosakara discusses one more topic-Panchadha vedaniyata (Akb. IV. 49.), which is not discussed in Ado. 6 cf. नियतानियतं तच्च नियतं त्रिविधं पुनः / वृष्टधर्माविवेद्यत्वात् पञ्चषा कर्म चेतना // As. IV. 50.