________________ 179.] : चतुर्थोऽध्यायः। 141 तदेतत्कर्म समासतो द्विविधं, नियतवेदनीयमनियतवेदनीयं च। तत्र नियतवेदनीयं त्रिविधम् / दृष्टधर्मवेदनोयमुपपद्यवेदनीयमपरपर्यायवेदनीयं चइत्येतत् त्रिविधं कर्म नियतवेदनी यम् / चतुर्थमनियतवेदनीयम् / - तत्र दृष्टधर्मवेदनीयं यत्रैव जन्मनि कृतं तत्रैव विपच्यते / उपपद्यवेदनीयं यद् द्वितीये जन्मनि / अपरपर्यायवेदनीयं तस्मात्परेण / अतः पुनश्चतुर्विधात्कर्मणः कतमेन जन्माक्षिप्यते ? जन्मनस्त्रिभिराक्षेपो दृष्टधर्माह्वयादृते // 3 न खलु दृष्टधर्मवेदनीयेन कर्मणा निकायसभाग आक्षिप्यते / / अथ कस्मिन्धातो कस्यां वां गतौ कतिविधं कर्माक्षिप्यते ? [179] चतुर्णामपि चाक्षेपः सर्वत्र नरकादते / न तत्रेष्टफलाभावाच्छभं यस्माद्विपच्यते // सर्वेषु खलु त्रिषु धातुषु सर्वासु च पञ्चसु गतिषु चतुर्णामपि कर्मणामाक्षेपः कुशलानामकुशलानां च / नरकान्वर्जयित्वा / नरकेषु हि दृष्ट[धर्म]वेदनीयं कुशलं नाक्षि प्यते / तत्रेष्टविपाकाभावादन्यत् त्रिविधमाक्षिप्यते / किञ्च, "अपरे पुनः पञ्चविधं कर्मेच्छन्ति / अनियतवेदनीयं द्विधा कृत्वा। विपाकेन नियतमनियतं चेति / Akb. IV. 50. 9. For a controversy on the term niyata see Kv. XXI.8. varfa कम्मकथा नाम होति / तत्थ यस्मा दिट्ठधम्मवेदनीयादोनि दिधम्मवेदनादीहि नियतानि, तस्मा सब्बे कम्मा नियता ति येसं लद्धि, सेय्यथापि तेस व [अन्धकानञ्च एकच्चानं उत्तरापथकानं] / एत्य विट्ठधम्मवेदनीयं दिट्ठधम्मवेदनीयमेव / सचे विठेव धम्मे विपाकं देतुं सक्कोति, ति, नो चे अहोसिकम्मं नाम होति / KvA. XXI. 4. : P After this, the Kosakara gives various views about the vipaka of drishtadharma-vedaniya: जन्मान्तरेऽपि अस्ति दृष्टधर्मवेदनीयस्य कर्मणो विपाक आरम्भवशात्तन्नामव्यस्थानमित्यपरे / मा भूद्यदेवमिष्टं कर्म तस्याल्पिष्टो विपाक इति / तदेवं नेच्छन्ति वैभाषिकाः ।""दान्तिकास्तु चतुष्कोटिकं कुर्वन्ति तेषां तत्कर्माष्टविधं दृष्टधर्मवेदनीयं नियतमनियतं च / एवं यावदनियतवेदनीयम् / नियतमेव तु दृष्टधर्मादिवेदनीयमनियतं चतुर्थमिति वर्णयन्ति.। Akb. IV. 50a. 3 See Asn p. 58. - 4 Cf. निकायाक्षेपणं त्रिभिः। सर्वत्र चतुराक्षेप: शुभस्य नरके त्रिधा | Ah. IV. 51 bcd.