________________ 177.] . चतुर्थोऽध्यायः / 139. पुनरण्या (न्या)नि त्रीणि कर्माण्युक्तानि“सुखवेदनीयं दुःखवेदनीयं, अदुःखासुखवेदनीयं च / " तत्र [176] सुखवेद्यं शुभ (भं) कर्म ध्यानादक्तुिरीयकात्। ___ उपेक्षावेद्यमन्यत्र दुःखवेद्यन्तु पापकम् // ' तत्र शुभं कर्म यावत्तृतीये ध्याने सुखवेद्यमित्युच्यते / एतावतो खलु भूमिः सुखाया वेदनायाः। तदेव चतुर्थध्यानात्प्रभृत्युपेक्षावेदनीयमित्युच्यते / अकुशलं तु कम दुःखवेदनीयमित्युच्यते / किं पुण (न)वेंदनव विपाक: ?3 नेत्याह। प्राधानिकोऽयं निर्देशं (शः) / सचतुस्कन्धसम्भारं हि सुखमभिप्रेतम् / दार्टान्तिकानां तु सुखैव वेदना विपाकः चेतनैव च कर्म / आभिधार्मिकानां तु.पञ्चस्कन्धो विपाकहेतुः पञ्चस्कन्धाश्च विपाक इति / कथं पुनरवेदनास्वभावं कर्म सुखवेदनोयमित्युच्यते ? सुखाया वेदनाया हितं सुखवेदनीयम् / सुखाऽस्या वेदनीयो विपाक इति वा / " किं पुनरदुःखासुखा वेदना चतुर्थध्यानादधो न विद्यते ? न खलु न विद्यते / किं तर्हि ? . [177] अधोऽपि मध्यम कर्म ध्यानेनान्त्येपि निर्वतेः / युगपत्त्रिविपाकेष्टेानान्तरविपाकतः / / 1 cf. सुखवेद्य शुभं ध्यानादातृतीयादतः परम् / / ___ अदुःखासुखवेद्य तु दु:खवेद्यमिहाशुभम् // Ab. IV. 47. 2 अकुशलं कर्म दुःखवेदनीयम् / इहग्रहणं कामधातावेव तद्भावज्ञापनार्थम् / Akb. IV d. 47. 3 Cf. न चैषां वेदनैव फलम् / किं तहिं ? ससंभारा। Akb. IV. 47. ससम्भारैरिति / सम्भ्रियते उत्पाद्यतेऽनेनेति सम्भारः। इन्द्रियविषयलक्षणः / तेन ससम्भारा वेदना फलम् / Saks. p. 390. 4 See Akb. II. 54 cd and Saks. pp. 211-215. 5 Cf. कथं पुनरवेदनास्वभावं कर्म सुखादिवेदनीयमित्युच्यते ? सुखवेदनायै हितं सुखवेदनीयं सुखोऽस्य वेदनीय इति वा / कश्च वेदनीयः / यो विपाकः / स ह्यसौ विद्यते सुखस्य वा वेदनीयं येन सुखं वेदयते / स्नानीयकषायवत् / Akb. IV. 47. 6 Cf. अधोऽपि मध्यमस्त्येके अन्ये पुनराहुः / तदेतन्मध्यमदुःखासुखवेदनीयं कर्मोक्तमेतच्चतुर्थध्यानादधोऽप्यस्ति / किं कारणम् ? ध्यानान्तरविपाकतः।