________________ 132 अभिधर्मदीपे [169. कामाप्तस्याष्टप्रकारसंवरस्य' पञ्चभिः कारणेस्त्यागः। शिक्षानिक्षेपणनिकायसभागत्यागोभयव्यञ्जनोत्पादकुशलसमुच्छेदेभ्यो निशात्ययेणा (ना)ष्टमस्य। तान्येतान्यभिसमस्य पञ्च भवन्ति / कि पुनः कारणमे भिस्त्यागो भवति ? समा[दा]नविरुद्धविज्ञप्त्युत्पादादाश्रयत्यागादाश्रयकोपनान्निदानच्छेदात्तावदेवाक्षेपाच्च / अन्ये पुनराहुः-चतुर्णा पतनीयाणा (ना) मन्यतमेन भिक्षुश्रामणेरसंवरत्यागः / "3 'तन्न' इति, 'अयोगतः / कः पुनर[III. A, 6 Fol. 92 b.] योगः ? [169] प्रयोगा (गो) नांशुविध्वंसात्पटद्रव्यं विनश्यति / न ह्यवयवनाशादवयविविनाशो भवति। अवयविरूपश्च प्रातिमोक्षसंवरः। तस्यावयवक्षोभाच्छिद्रत्वं भवति मालिन्यं च / यथोक्तं भगवता"दुःशीलो भवति पापधर्मा / " 9 This refers to the eight kinds of Pratimoksha-samvara. Vide supra p. 128_n. 4. These are the four Parajika dhamma of the Sthaviravada.Vinaya. 3 Cf. पतनीयेन चेत्येके। Ak. iv. 399. एभिश्च यथोक्तैः पञ्चभिः कारणैः पतनीयेन चेति / पतन्त्यनेनेति पतनीयम् / तच्चतुर्विधम् / अब्रह्मचर्यम् / यथोक्तप्रमाणमदत्तादानम् / मनुष्यवधः / उत्तरिमनुष्यधर्ममृषावादश्चेति / Saks. p. 386. . . 4 Cf. धनसंवत्त काश्मीरैरापन्नस्येष्यते द्वयम् / Ak. IV. 39 cd. काश्मीरास्तु खलु वैभाषिका एवमिच्छन्ति / न मौलीमध्यापत्तिमापन्नस्यास्ति भिक्षुसंवरत्यागः। किं कारणम् / न ह्येकदेशक्षोभात्कृत्स्नसंवरत्यागो युक्त इति / नैव चान्यामप्यापत्तिमापनस्यास्ति शीलच्छेदः / कि तहि ? द्वयमस्य भवति शीलं दौःशील्यं च / यथा कस्यचिद्धनं स्याद् ऋणं च / आविष्कृतायां तु तस्यामापत्तो शीलवान भवति न दुःशीलो यथा ऋणं शोधयित्वा धनवान् भवति न त्वृणवानिति / Akb. IV. 39 cd. धनणवत्त काश्मीररापन्नस्येष्यते / आगमायुक्तितश्च / तत्रायमागमः / विनय उक्तम्-"दुशीलश्चेद्धिाभिक्षुणीमनुशास्ति, संघावशेषमापद्यते” इति / आपन्नपाराजिको हि भिक्षुर्दुःशीलोऽभिप्रेतः। नानापन्न गराजिकः / प्रकृतिस्थः शीलवानिति विपर्ययेण वचनादतोऽवगम्यते -अस्त्यस्य दुःशीलस्यापि सतो भिक्षभावः। यस्मात्संघावशेषमापद्यत इत्यक्त. मिति / युक्तिरपि 'न ह्येकदेशक्षोभात्सकलसंवरत्यागो युक्तः इति / न मौलीमप्यापन्नस्येति / पतनीयानामप्यापन्नस्येत्यर्थः / 'Sakb. p. 386. 5 See Siksha. pp 67-8.