________________ 168.1 चतुर्थोऽध्यायः। "न्तिका मात्सिका मगलुब्धकाश्चौराः वध्यघातका बन्धनपालका नागबन्धा 'श्वपाका बागुरिकाश्च / राजानो दण्डनेतारो व्यावहारिकाश्च नीतिचलिता असावरिकाः। असंवरे भा (भ)वाः, असंवरो वा एषां विद्यत इत्यसांवरिकाः // ' __उक्तमिदं येभ्यः [अ]संवरो लभ्यते / कथं तु तल्लाभ इति नोक्तं तदा रभ्यते[167] क्रियया[s] संवरप्रप्तिः सहान्युपगमेन वा। ___ अविज्ञप्तिरतोऽन्यस्याः क्षेत्राङ्गादिविशेषतः // 2 ___३द्वाभ्यां कारणाभ्यामसंवरो लभ्यते। क्रिययाऽभ्युपगमेन वा। क्रियया तत्कुलीनतत्कर्माभ्युपगमात् / अतत्कुलीनर्वयमप्यनया जीविकया जीविष्याम इति / शेषाऽविज्ञप्तिलाभस्तु क्षे त्राङ्गविशेषादिति / क्षेत्रं वा तद्रूपं भवति यथारामादिप्रनानमात्रेणाविज्ञप्तिरुत्पद्यते। यथोपधिकेषु पुण्यक्रियावस्तुषु / आदरेण वा समादत्ते / बुद्धमवन्दित्वा न भोक्ष्य इति / मासार्धमासभक्तानि वा नित्यं करिष्यामीत्येवमादि। पादरेण वा तद्रूपेण क्रियामीहते कुशलामकुशलां वा यतोऽस्या विज्ञप्तिरुत्पद्यते / उक्तमेतद्यथा संवरासंवराणां प्रतिलम्भः // त्याग इदानीं वक्तव्यः / तत्र तावत् - [168] कामाप्तसंवरत्यागः शिक्षाणि (नि)क्षेपणादिभिः / पतनीयरपीत्येके तन्नेत्यन्ये त्वयोगतः // 9 After this passage, the Kosakara discusses the following युक्तस्तावत् संवरस्य सर्वसत्त्वेभ्यो लाभः सर्वसत्त्वहिताध्याशयेन ग्रहणात् / औरभ्रि. कादीनां तु मातापितृदारादिष्वविपन्नाशयानां जीवितहेतोरप्यहन्तुकामानां कथमसंवरः सर्वसत्त्वेभ्यो युज्यते ?......"सर्वथा नास्ति विकलः प्रादेशिकश्चासंवरिक इति वैभाषिकाः / यथाभ्युपगमं विकलोऽपि स्यात् प्रादेशिकोऽप्यसंवरः संवरश्चान्यत्राष्टविधादिति सौत्रान्तिकाः / तन्मात्रशीलदौःशील्यप्रतिबन्धात् / AR. IV. 36 cd. 2 Cf. असंवरस्य क्रियया लाभोऽभ्युपगमेन वा। शेषा विज्ञप्तिलाभस्तु क्षेत्रादानावरेहणात् // Ah. IV. 37. - 3-3 This whole passage (from द्वाभ्यां कारणाभ्यां to प्रतिलम्भः ) is almost identical with Akb. IV. 37. 4 Cf. प्रातिमोक्षदमत्यागः शिक्षानिक्षेपणाच्युतेः। उभयव्यञ्जनोत्पत्तर्मूलच्छेदानिशात्ययात् // AR. IV. 38.