________________ 166.] चतुर्थोऽध्यायः। 129 प्रा तिमोक्षसंवरः खलु सर्वेभ्यो मौलप्रयोगपृष्ठेभ्यो वर्तमानेभ्यः स्कन्धायतनधातुभ्यः सत्त्वाधिष्ठानप्रवत्तत्वात्, नातीतानागतेभ्यस्तेषामसत्त्वसंख्यातत्वाल्लभ्यते। 'द्विविधेभ्योऽपि' सत्त्वासत्त्वाख्येभ्यः, प्रकृतिप्रतिक्षेपसावधेभ्यश्च / त्रिकालेभ्यस्तु मौलेभ्यो लभ्येते भावनामयो' / / एतौ हि मोलेभ्य एव कर्मपथेभ्यो लभ्येते न प्रयोगपृष्ठेभ्यो नापि प्रज्ञप्तिसावद्येभ्यः, सर्वकालेभ्यश्च स्कन्धायतनधातुभ्यो लभ्येतेऽतीतानागतेभ्योऽपि। चतुष्कोटिका चात्र भवति / "सन्ति ते स्कन्धायतनधातवो येभ्यः प्रातिमोक्षसंवरो लभ्यते न ध्यानानास्रवसंवरौ" इति विस्तरः। प्रथमा कोटि(टिः)-प्रत्युत्पन्नेभ्यः 'सामन्तकपृष्ठेभ्यः प्रतिक्षेपणसावद्याच्च / द्वितीयाअतीतानागतेभ्यो मौलेभ्यः कर्मपथेभ्यः। तृतीया-प्रत्युत्पन्नेभ्यः मौलेभ्यः कर्मपथेभ्यः / चतुर्थी--अतीतानागतेभ्यः सामन्तकपृष्ठेभ्य इति // कि पूनरिमौ संवरासंवरौ सर्वसत्त्वेभ्य एव लभ्येते ? सर्वाङ्गेभ्यः सर्वकारणश्च ? अथास्ति कश्चिद्भेदः ? तत्र तावदवश्यं लभ (भ्य)ते[166] सर्वेभ्यः सत्त्वजातिभ्यः संवरो वाङ्गकारणैः / / सर्वेभ्यो संवराङ्गेभ्यः सत्त्वेभ्यश्च न कारणः / / सर्वसत्त्वेभ्यः खलु संवरो लभ्यते न केभ्यश्चित् / अङ्गेभ्यस्तु विभाषा कश्चित्सर्वेभ्यो लभ्यते भिक्षुसंवरः। कश्चिच्चतुर्व्यः / ततोऽन्यः। कर्मपथा हि संवराभ्याङ्गानि / कारणैरपि केनचित्पर्यायेण सर्वैः, केण (न)चिदेकेन / 1 Cf. मौलेभ्यः सर्वकालेभ्यो ध्यानानाश्रवसंवरौ। As. IV. 35 cd. 2-2 This passage (from एतो हि मौलेभ्य एव to सामन्तकपृष्ठेभ्य इति) is identical with Akb. IV 35. After this, the Akb. has :-न तु संवरलाभकाले वर्तमानाः कर्मपथाः सन्तोति वर्तमानाधिष्ठितेभ्य इति वक्तव्यम् / अनागतानामेव संवरणं युज्यते नातीतवर्तमानानाम् / See Saks. pp. 382-3. Cf KvA. xx. 1. . 3 Cf. संवरः सर्वसत्त्वेभ्यो विभाषा स्वङ्गकारण।। Ak. IV. 36 ab. 4 'कश्चित्सर्वेभ्यः' इति विस्तरः / 'भिक्षुसंवरः' सर्वेभ्यः कर्मपथेभ्यो लभ्यते / वर्जनीया इत्यर्थः / सर्वकर्मपथा 'कश्चिच्चतुर्म्यः / ततोऽन्यः / ' ततो भिक्षुसंवरादन्यः संवरः श्रामणेरादिसंवरश्चतुर्थ्य एव 'अङ्गेभ्यो लभ्यते'। कायिकेभ्यः प्राणातिपातादिभ्यस्त्रिभ्यो वाचिकाच्च मृषावादात् / Saks. p. 383.