________________ 128 अभिधर्मदीपे [165 पापिष्ठत्वान्मृषावादो मद्यपाणं (नं) स्मृतिक्षयात् // ' काममिथ्याचारो हि लोकेऽत्यर्थं गर्हितः। परेषां दारोपघातादापायि- . कत्वाच्च / न तथाऽब्रह्मचर्यम् / सुकरा च गृहस्थस्य काममिथ्याचारवि रतिः, दुष्करा त्वब्रह्मचर्यात् / आर्यश्चाकरणसंवरं काममिथ्याचारादेव जन्मान्तरितोऽपि लभते न त्वब्रह्मचर्यात् / मृषावादोऽपि भगवता पापिष्ठत्वाद्राहुलमुद्दिष्य परमेनादरेणोक्तः - "यस्य राहुल मृषावादे नास्ति लज्जा नास्ति कोकृत्यं नाहं तस्य किञ्चिदकरणीयं वदामि" इति / मद्यपानेऽपि स्मृतिलो पो भवति, सर्वशिक्षापदक्षोभो भवतीत्यतः प्रतिक्षे. पणसावद्यमपि सन्मद्यपाणं (नं) कुशाग्रेणापि भगवता नाभ्यनुज्ञातम् // ' ' इदमिदानीमुच्यताम् / य एते त्रयः प्रातिमोक्षध्यानानास्रवसंवराः किमेषां यत एको लभ्यते ततः शेषा अपीति ? ब्रमः [165] सर्वेभ्यो वर्तमानेभ्यो द्विविधेभ्योऽपि कामजः / After this, the Akb. (IV. 33 cd.) discusses : अथ कथं भार्यायुक्तस्य उपासकस्य संवरक्षोभो न भवति ? This topic is not discussed in Adv. 1 Cf. मृषावाद प्रसंगाच्च सर्वशिक्षाव्यतिक्रमे / Ak. IV. 34 ab. 2 Cf. एवमेव खो राहुल यस्स कस्सचि सम्पजानमुसावादे नत्थि लज्जा नाहं तस्स किञ्चि पापं अकरणीयं ति वदामि / M. sutta 62. 3 Cf. प्रतिक्षेपणसावद्यान्मद्यादेवान्यगुप्तये / Ak. IV. 34 cd. The Kosakara discusses one more topic-"कथं पुनर्मद्यपानं प्रतिक्षेपणसावा गम्यते ?" There are two views about it-"प्रकृतिसावा मद्यमिति विनयधराः / .. नेत्याभिधार्मिकाः / Akb. IV. 34 cd. See Aaa. p. 407. 4 संवरकर्म कतमत् / प्रातिमोक्षसंवरसंगृहीतं कर्म ध्यानसंवरसंगृहीतं कर्म अनास्रव. संवरसंगृहीतं कर्म च / प्रातिमोक्षसंवरसंगृहीतं कर्म कतमत् / भिक्षुसंवरः भिक्षुणीसंवरः शिक्षमाणसंवरः श्रामणेरसंवरः श्रामणेरीसंवरः उपासकसंवरः उपासिकासंवरः उपवाससंवरश्च / ध्यानसंवरसंगहीतं कर्म कतमत् / दौःशील्यसमुत्थापकानां क्लेशानां बीजोपघाते सति कामेभ्यो वीतरागस्य या विरतिः / प्रथम"द्वितीय"तृतीयध्यानवीतरागस्य या विरतिः / अनानवसंवरसंगृहीतं कर्म कतमत् / सत्यदर्शनेन अनास्रवमनस्कारबलेन प्रतिलब्धा अनास्रवा विरतिः / Asm. pp. 57-8. See Aam. pp. 48-9. Vm. I. 18. 5 Cf. सर्वोभयेभ्यः कामाप्तो वर्तमानेभ्य प्राप्यते / Ak. IV. 35 ab.