________________ 127 164.] .. चतुर्थोऽध्यायः / किं स्वभावानि पुनः शरणगमनानि? वाग्विज्ञप्तितत्समुत्थधर्मस्वभावानि // कः पुनः शरणार्थः ? त्राणार्थः शरणार्थः / तदाश्रयेण सर्वदुःखात्यन्तविमोक्षात् / उक्त हि भगवता "बहवः शरणं यान्ति पर्वतांश्च वनानि च / आरामांश्चैत्यवृक्षांश्च मनुष्या भयतजिताः॥ न चैतच्छरणं श्रेष्ठं नैतच्छरणमुत्तमम् / नैतच्छरणमागम्य सर्वदुःखात्प्रमुच्यते // यस्तु बुद्धं च धर्म च संघं च शरणं गतः / चत्वारि चार्यसत्यानि पश्यति प्रज्ञया यदा // दुःखं दुःखसमुत्पादं दुःखस्य समतिक्रमम् / आर्य चाष्टांगिक मार्ग क्षेमं निर्वाणगामिनम् / / एतद्धि शरणं श्रेष्ठमेतच्छरणमुत्तमम् / एतच्छरणमागम्य सर्वदुःखात्प्रमुच्यते // " इति / अत एव शरणगमनानि [III. A, 5. Fol. 91 b.] सर्वसंवरसमादानेषु द्वारभूतानि, दृष्टिसंपन्नस्य तेषां प्ररोहात् / किं पुनः कारणं काममिथ्याचारादेवोपासकस्य विरतिः शिक्षापदेषु व्यवस्थापिता न सर्वस्मादब्रह्मचर्यात् ? अन्येभ्यश्च प्रकृतिसावधेभ्यो मृषावाद एव शिक्षापदेषु व्यवस्थाप्यते, न पारुष्यादि ? सर्वेभ्यश्च प्रतिपक्षे (क्षप)णसावधेभ्यः मद्यपानादेव विरतिः शिक्षापदं व्यवस्थापितम् ? तदुच्यते [164] मिथ्याचारः सतां गत्पिरत्राकरणाप्तितः / / 9 Quoted in Akb. IV. 32. Cf. बहु वे सरणं यन्ति पब्बतानि वनानि च / आरामरुक्खचेस्यानि मनुस्सा भयतज्जिता // नेतं खो सरणं खेमं नेतं सरणमुत्तमं / नेतं सरणमागम्म सब्बदुक्खा पमुच्चति / / यो च बुद्धञ्च धम्मच सङ्घञ्च सरणं गतो। चत्तारि अरियसच्चानि सम्मप्पाय पस्सति // दुक्खं दुक्खसमुप्पा दुक्खस्स च अतिक्कम। अरियञ्चङ्गिकं मग्गं दुक्खूपसमगामिनं // एतं खो सरणं खेमं एतं सरणमुत्तमं / . एतं सरणमागम्म सम्बदुक्खा पमुच्चति // Dhammapada, xv. 10-14. . 2 Cf. मिथ्याचारातिगह त्वात्सौकर्यादक्रियाप्तितः। Ak. IV. 33 ab.