________________ 126 अभिधर्मदीपे [162, [162] शाश्वतत्वशुभत्वाभ्यां सर्वाण (न)र्थनिवृत्तितः / मुख्यकल्पनया तद्वद्धों निर्वाणमुच्यते // ' नित्याविकृतस्वलक्षणे (ण)धारणात्तत्प्राप्तानां चात्यन्तधारणे निर्वाणं पारमाथिको धर्मः / गुणकल्पनथा तु प्रत्येकबुद्धबोधिसत्त्वसन्तानिको मार्गः। त्रीणि च पिटकानि धर्मों निर्वाणप्रापकत्वात् / / [163] प्रायः शिष्यगुणाः संघस्तथैव परमार्थतः / नवानामशक्षाणामष्टादशा'नां च शैक्षाणां शिष्याणां सन्ताने यो मार्गः स पारमार्थिकः संघ इत्युच्यते / संवृत्या तु पृथग्जनकल्याणकभिक्षुसंघ इत्यपदिश्यते / 3 एतान्यो याति शरणं स याति शरणत्रयम् // ___एतान्यथोक्तलक्षणान् बुद्धधर्मसंघान् शरणं गच्छति 'यो याति शरणत्रयम्' इति // 4 1cf. धम्मं ति परियत्तिधम्मेन सद्धि नवविधम्पि लोकुत्तरधम्मं / Vm T. p. 180. 2 "अष्टादश शैक्षाः कतमे ? स्रोतआपत्तिफलसाक्षात्क्रयायै प्रतिपन्नकः / स्रोतापनः / सकृदागामिफलसाक्षात्क्रियायै प्रतिपन्नकः। सकृदागामी। अनागामिफलसाक्षात्क्रियायै प्रतिपन्नकः / अनागामी। अर्हत्त्वफलसाक्षात्क्रियायै प्रतिपन्न कः / श्रद्धानुसारी / धर्मानुसारी। श्रद्धाधिमुक्तः / दृष्टिप्राप्तः। कुलंकुलः। एकवीचिकः। अन्तरापरिनिर्वायो। उपपद्यपरिनिर्वायी। साभिसंस्कारपरिनिर्वायी। अनभिसंस्कारपरिनिर्वायी। ऊध्वंस्रोतः / इतीमे गृहपतेऽष्टादश शैक्षाः।। नवाशक्षाः कतमे ? परिहाणधर्मा। चेतनाधर्मा। अनुरक्षणाधर्मा। स्थिताकम्प्यः / प्रतिवेधनाभव्यः। अकोप्यधर्मा। चेतोविमुक्तः। प्रज्ञाविमुक्तः। उभतोभागविमुक्तः / इतीमे गृहपते नवाशक्षा इति / " Saks. pp. 565-7. Sec Vm VII. 93, Asm. p. 87 and Puggala-pannatti, chapter I. 3 Cf. Ko. XVII. 6-9.-इदानि न वत्तब्बं संघो दक्खिणं पटिगण्हातीति कथा नाम होति / तत्थ परमत्थतो मग्गफलानेव संघो, मग्गफलेहि अञो संघो नाम नत्थि." इति येसं लद्धि, सेय्यथापि एतरहि महासुझवादीसङ्घातानं वेपुल्लकानं ।"न च मग्गफलानेव संघो, मग्गफलपातुभावपरिसुद्धे पन खन्धे उपादाय पञ्चत्ता अट्ठपुग्गला संघो" | KvA. XVII. 6. 4Cf. सर्वो बुद्धशरणं गच्छन् किं शरणं गच्छति ?""शरणमसी गच्छति सशिक्षनिष्पन्नधर्मान् ।"शरणं तथा गच्छति विरागं निरोधं निर्वाणम् इति धर्मशरणगमनम् / ... शरणमसी गच्छति सर्वशैक्षाशैक्षनिष्पन्नसंघधर्मान् / इति संघशरणगमनम् / Jps. p. 37.