________________ 161 चतुर्थोऽध्यायः। 125 पासकत्वं शास्ति / न हि सर्वशीलविकलः कश्चिच्छरणगमनेच्छामात्रकणोपासको , भवति षडङ्गोषधैकद्वयङ्गवैकल्योपयोगवदिति। अथ यदुक्तम्-“बुद्ध धर्म संघं शरणं गच्छति" इति तत्क एते बुद्धादयः ?' तदिदमभिधीयते[161] विगतावणे ज्ञा ने बुद्धोक्त #ख्यकल्पना / तदाश्रये फले चापि विज्ञेया गुणकल्पना॥ द्विविध[:] खलु बुद्धः संवत्या परमार्थतश्च / तत्र परमार्थतो यथोक्त शास्त्रे-“यो बुद्धं शरणं गच्छति किमसौ शरणं गच्छति ? तानेवासौ बुद्धक [1]रकानशैक्षान्धर्माञ्छरणं गच्छति / ते हि बुद्धशब्दप्रवृत्तिनिमित्तचिह्नम् / " इति / तेभ्योऽपि निराव रणं ज्ञानं प्रधानं सर्वज्ञः इति लोकप्रसिद्ध एष तावत् पारमार्थिको बुद्धः। संवृत्यापि 'तदाश्रये' द्वात्रिंशता लक्षणैरशीत्या चानुव्यञ्जनैविराजिते रूपकायेऽपि बुद्धाख्येति / तत्फले च बलवैशारद्यमहाकरुणादिषु" बुद्धोक्तिरिति। 1 बुद्धसंघकरान्धर्मानशक्षानुभयांश्च सः / निर्वाणं चेति शरणं यो याति शरणत्रयम् // Ak. IV. 32. यो बुद्धं शरणं गच्छति, अशैक्षानसौ बुद्धकारकान् धर्मान् शरणं गच्छति"। यद्यशक्षा धर्मा एव बुद्धः कथं तथागतस्यान्तिके दुष्टचित्तरुधिरोत्पादनादानन्तयं भवति ? आश्रयविपादनात्तेऽपि विपादिता भवन्तीति वैभाषिकाः। शास्त्रं तु नैव वाचकमशैक्षा धर्मा एव बुद्ध इति / कि तहि / बुद्धकारका इति / Akb. IV. 32. 2 Cf. तथाहि त्राणार्थः शरणार्थो वर्ण्यते यश्च बुद्धं शरणं गच्छति / सोऽशैक्षान् . बुद्धकारकान्धर्मान् शरणं गच्छति / Aaa. p. 134. - 3 Cf. तत्र सर्वज्ञता वुद्धत्वम् / बुद्धकारकाः धर्माः सर्वाकारज्ञतालक्षणाः धर्माः / Aaa. p. 100. Also cf. यं पन किञ्चि अत्थि बेय्यं नाम, सब्बस्सेव बुद्धत्ता विमोक्खन्तिकत्राणवसेन बुद्धो। यस्मा वा चत्तारि सच्चानि अत्तना पि बुज्झि, अछे पि सत्त बोधेसि Vm. VII. 52. For a discussion on the sarvajnatva of Buddha, vide Vm T. p. 190, Pramana-vartikavritti, I. 30-35 and Tattvasangraha, pp. 846 ff. For a refutation of sarvajnavada, see Slokavartika, 2. 110-143. 4 The Kosakara does not hold this view :-'रूपकायस्य पूर्व पश्चाच्चाविशेषात् / Akb. IV. 34. 'रूपकायस्य पूर्व पश्चाच्चाविशेषादिति' किं ? न रूपकायं शरणं गच्छतीति सम्बन्धः। यादृशो बोधिसत्त्वावस्थायां रूपकायस्तादृशः पश्चादपीति / Saks. p. 377. __ 5 यो बुद्धं शरणं गच्छतीति सम्बन्धः। सोऽष्टादशावेणिकान् बुद्धधर्मानित्यपरे / Akb. IV. 34. See alfarar ca fa 91 I Kv. IV. 6.