________________ 120 अभिधर्मदीपे [157 भागवतादितन्निन्दादर्शणा (ना)च्च / भागवताद्या हि महेश्वरं णि (नि). न्द्यन्तो दृश्यन्ते / माहेश्वराश्च विष्णुमिति / कारणसापेक्षं तपःसामर्थ्यादुत्पादयतीति चेत् / तत्रापदिश्यते / नान्यापेक्षा तपोयोगो पक्षहान्यादिदोषतः // यदि खलु सहकारिकारणापेक्षः तपोबललब्ध्यैश्वर्यश्च लोकं सृजति कुम्भकारवद्धटादीन् / न / चे(ए)वं सति पूर्वपक्षोत्सर्गः कृतो भवति / यदुक्तं नित्यश्चैकश्च स्वतन्त्रः कारणमिति तद्धीनम् / तपोबलसामर्थ्याभ्युपगमे चानित्यत्वं पारतन्त्र्यं चाभ्युपगतं भवति / तदभ्युपगमाच्वानैश्वर्यमिति / एतेन कालपुरुषप्रधानादिकारणपरिग्रहा: प्रत्यूढा वेदितव्याः / यदि खलु कर्म कारणं नेश्वरादयः कथं तहि लोकस्तत्कारणपरिग्रहं करोतीति ? अत्र ब्रमः[157] कर्मणां बोध्यते शक्तिविधिकालग्रहादिभिः / यतोऽतस्तेषु ताच्छब्यं गौन्या(ण्या) वृत्त्या प्रयुज्यते / / यथोक्तम्"विधिविधानं नियतिः - स्वभावः __कालो ग्रहा ईश्वरकर्मदैवम् / पुण्यानि भा['ग्या]णि (fr) कृतान्तयोगः पर्यायनामाणि (नि) पुराकृतस्य / / "2 1. तीणिमानि भिक्खवे तित्थायतनानि यानि पण्डितेहि समनयुञ्जिमानानि अकिरियाय सण्ठहन्ति / कतमानि तीणि ? सन्ति भिक्खवे एके समणब्राह्मणा एवं वादिनो""यं किञ्चायं पुरिसपुग्गलो पटिसंवेदेति''सब्बं तं . पुब्बे कतहेतू ति / सन्धि""एके "सब्बं तं इस्सरनिम्माणहेतू ति / सन्ति' 'एके "सब् तं अहेतु-अप्पच्चया ति / Ang. I. p. 173. 2. Cf. कालः स्वभावो नियतिर्यदृच्छा भूतानि योनिः पुरुषेति चिन्त्याः / संयोग एषां ननु आत्मभावाद् आत्माप्यनीशः सुखदुःखहेतोः // Swetasvatara Up. I. 2. - स्वभावमीश्वरं कालं यदृच्छां नियति तथा / परिणामं च मन्यन्ते प्रकृति पृथुदर्शिनः // Susruta-sarichita I. Il. For the refutation of kala, svabhava and niyati, see Satrakrita ngaSilanka Tika, I. 21-10. V. supra, p. 119, n. 1.