________________ 153.] तृतीयोऽध्यायः / 117 [152] आग्नेयात्सप्तकादेक[:] पावनीकिमनन्तरम् / - आयुष्परिग्रहादेवं शुभकृत्स्नायुरेधनम् // एवं च कृत्वा प्रज्ञप्तिभाष्यमनुलोमितं भवति'--"चतुःषष्ठिःकल्पाः शुभकृत्स्नां (त्स्ना) [नां] देवनामायुष्प्रमाणम्" इति / / 2 / / अथ कस्मात् [पृथिवीसंवर्तनी न] भवति ? : "तदत्र कारणमुच्यते[153] वातादिदोषसाधा [त्सत्त्वा]णा (नां) [तद्विनाशकाः] / प्राध्यात्मिकेति सारूप्यान्न भूसंवर्तणी(नी) मता / / यथा खलु वातपित्तश्लेष्मभिस्त्रिभिः सत्त्वानां मर्मच्छेदः पृथिवीधातुत्वलक्षणो भवति तद्वदग्नि[जलवायुभिर्भूरुत्पाद्यते / किञ्च, एते [तद्विनाशकाः] ....... तन्नाशाय प्रवत्तत्वात् / किञ्च, 'आध्यात्मिकेति सारूप्याच्च' / यथा चाध्यात्मिक्यस्विस्रश्चित्तस्य तयोर्भवन्ति वितर्कविचारप्रीत्युच्छ्वासप्रश्वासलक्षणेस्त[था] बाह्या अप्यु (द्रवां वह्नयम्भोवायुप्रकोपलक्षणा भवन्तीति / अभिधर्मदीपे [विभाषाप्रभायां वृत्तौ तृतीयस्याध्यायस्य च]तुर्थः पादः समाप्तः // [तृतीयोऽध्यायः समाप्तः // 1 एवं च कृत्वेति / यस्मादष्टकृत्वस्तेजःसंवर्तनीसप्तका इति षट्पञ्चाशत्तेजःसंवर्तन्यो भवन्ति सप्ताप्संवर्तन्यः, एका वायुसंवर्तनीति चतुःषष्टिसंवर्तन्यो भवन्ति / तस्माद्यदुक्तं प्रज्ञप्तिभाष्ये "तत्सूक्तं भवति / शुभकृत्स्नानां चतुःपष्टियोजनानां शरीरप्रमाणम् / शरीरप्रमाणेन 4 तेषामायुःप्रमाणमुक्तम् / 'आयुस्तु कल्पैः स्वाश्रयम्' इति वचनात् / एकैका संवर्तनी महाकल्प इति कृत्वा / इयता हि कालेन तेषामायुषः परिसमाप्तिरिति / Soky. p 344. 2 Cf तेसु'"सुभकिण्हानं चतुसट्ठि कप्पानि आयुप्पमाणं / A. Sangaho. v. 17. --एवं परिच्छिन्नस्स अन्तराकप्पस्स वसेन चतुसटि अन्तरकप्पप्पमाणो होति / वीसति अन्तरकप्पप्पमाणोति च वदन्ति / A. Vibhavint. p. 94. 3 एकत्र ध्याने सत्त्वाः समं संवर्तन्ते एतस्यामिति संवर्तनी। सप्तभिः सूर्येस्तेजःसंवर्तनी भवति, वर्षोदकेनाप्संवर्तनी, वायुप्रकोपाद्वायुसंवर्तनी। ताभिश्च भाजनाना सूक्ष्मोप्यवयवो नावशिष्यते / Akb III. 100 ab. कस्मात् पृथिवीसंवर्तनी न भवति ? पृथिव्येह हि भाजनाख्या तस्यां तेजोजलवायुभिर्विरोधो न पृथिव्येति / Akb. III. 100 a. 4 v. supra, p. 115, n. 1.