________________ अभिधर्मदीपे [ 151. वाय्वात्मकाः। इत्यतो यस्यां ध्यानसमापत्तौ यथाभूतोऽपक्षालस्तथाभूतेन बाह्येन विनाशः / चतुर्थे तु [बाह्योऽपक्षालो न प्रवर्तत इति] नास्ति संवर्तनी / ' नित्यं तहि चतुर्थध्यानं प्राप्यम् / कस्मात् ? 'विमानस्य सम(स)त्वस्य' कर्मक्षयेन 'प्रध्वंसात्' इति // . कथं पुनरेताः संवर्तन्यः कया वाऽनुपूर्व्या भवन्ति ? तदुच्यते / निरन्तरं तावत्[151] सप्त तेजोभिरेकाऽद्भिर्गतेऽद्भिः सप्तके पुनः / तेजसा सप्तकान्त्यका वायु[संवर्तनी ततः] // 2 4 सप्त संवर्तन्यस्तेजोभिः] भवन्ति / अष्ठमोऽपाम् / [एवं] सप्तको भवति / तस्मिन् सप्तकेऽतिक्रान्त पुनस्तेजसा सप्तकः / तस्मिन्नप्यतिक्रान्ते वायुसंवर्तन्यैकया णा (ना) शो भवति / सा तु नित्यं तेजसः सप्तकपृष्ठ वायुसंवर्तनी भवति / त एते पिण्डेन भवन्ति षट्पञ्चाशत्] तेजःसंवर्त [न्यः] , सप्ताप्संवर्त[न्यः, एका वायुसंवर्तनी] || [कि पुनस्तत्र कारणं य]त्पश्चाद्वायुर्सवर्तन्येकैव भवति ? तदुच्यते 1. शुद्धावासप्रभवादित्यपरे / नहि तैः शक्यमारूप्यान् प्रवेष्टुं नाप्यन्यत्र गन्तुमिति / नित्यं तहि ध्यानभाजं प्राप्नोति ?"""नहि चतुर्थध्यानमेकभूमिसंबद्धम् / किं तर्हि ? विच्छिन्नस्थानान्तरं तारकावत् / तत्राप्ययं सत्त्व उपपद्यते च्यवते वा। स साधू विमानेनेति नास्त्यस्य नित्यत्वम् / Akb. III. 101. See. Asm. p. 39. 2. Cf, साताग्निनाद्भिरेकैवं गतेऽद्भिः सप्तके पुनः / तेजसा सप्तकः पश्चाद्वायुसंवतंनी ततः // Ak. III. 102. (Here ends the III Kosasthana of Akb.) Also cf. तथा हेस लोको सत्तवारेसु अग्गिना विनस्सति; अट्ठमे वारे उपकेन; पुन सत्तवारेसु अग्गिना; अट्ठमे उदकेनाति एवं अट्ठसु अट्ठकेसु परिपुण्णेसु पच्छिमवारे वातेन विनस्सति; तत्थ पठमज्झानतलं उपादाय अग्गिना, दुतियततियज्झानतलं उपादाय उदकेन, चतुत्यज्झानतलं उपादाय वातेन विनस्सति / वुत्तम्पि चेतं "सत्त सत्तग्गिना वार। अट्ठमे अट्ठमोदका / चतुसहि यदा पुष्पा एको वायुवरी सिया // अग्मिनाभसरा हेट्ठा आपेन सुभकिण्हतो। वेहाफलतो वातेन एवं लोको बिनस्सती"ति // A. Vibhavint. p. 94. 3. तेजःसंवर्तनीति नरकगतिमुपादाय यावद्ब्रह्मलोके कश्चित्सत्त्वो नावशिष्टो भवति तदा शून्यभाजने सप्त सूर्याः प्रादुर्भूय क्रमेणाप्मण्डलमारभ्य यावत् प्रथमं ध्यानं दहन्ति / * Aaa. p. 259.