________________ 145.] द्वितीयोऽध्यायः। 111 * सामग्निकः शब्दोऽर्थप्रत्यायनलिङ्गमिति चेत् / न / साध्यत्वाद्वितर्कविचाराधीनजन्मनः शब्दस्य क्रमयोगपद्यप्रत्यायनानुपपत्तेश्च / प्रतिवर्णविषया स्मृतिः प्रत्याययतीति चेत् / न। तत्समानदोषत्वात्पूर्वपक्षोत्सर्गत्वाच्च / संस्कार इति चेत् / न / असिद्धत्वादुक्तोत्तरत्वा" च (च्च)। यादृच्छिकसंवृति शब्दमात्राभ्युपगमें वक्ष्यमान(ण) दोषप्रसंगाच्चेति / कि पुनरेते नामकायादयो नित्या आहोस्विदनित्या इति ? अनित्यास्ते तु विज्ञेयाः तु. शब्दो [5] नित्यत्ववादविशेष र्थो हेतुः / क इति चेत् / सोऽय मुच्यते - सापेक्षार्थविभावनात् // कथम् ? ज्ञानवत् / तद्यथा ज्ञानं चक्षुरादीन् हेतूनपेक्ष्यार्थं विभावयति तद्वन्नामादयोऽपि घोषादीन् हेतूनपेक्ष्याथं प्रत्याययन्ति / तस्मात्सापेक्षप्रत्यायनादनित्या इति / / यदि तहि नामादयोऽर्थं प्रत्याययन्ति, तत्कथमिदं सद्भिरप्युच्यते-'शब्दोऽर्थ प्रत्याययति' इति ? तदत्राभिधीयते [144] स्वरूपं वेदयंश्च्छब्दो व्यञ्जना दीनि च ध्र वम् / अर्थप्रत्यायकः प्राजभक्तिकल्पनयोच्यते / / आजसा हि वाङ नाम्नि प्रवर्तते नामाभिलपतोत्यर्थः। नाम त्वथं द्योत. यतीति प्रतिवर्णानुवतिनो वाक् खलु नामाभिलपन्तो स्वञ्च रूपमुद्भावयन्ती सन्तानेन प्रवर्तमाना गुणकल्पनयाऽथं प्रत्याययतीत्य [III. A, 3 Fol. 51 b]पदिश्यते / न त्वर्थः शब्दवाच्यो द्योत्यो वा / / इतश्च न शब्दोऽर्थं प्रत्याययति / यस्मात्[145] परमानु(ण) स्वभावत्वाद् घोषकत्वं न युज्यते / "एदैतौ कण्ठतालव्यो"' इति प्रतिज्ञायते / न चैकस्यान (ण)वचनस्य विश्लिष्टस्थानद्वये वृत्तिरुपपद्यते। परमाणुसंघातस्य तूपपद्यते / परमान(ण)वोऽपि प्रत्येक [न] प्रत्याययन्ति, दिग्भागास्तित्वनास्तित्वे तदभावाच्चेति / समुदायोऽपि - मध्यस्थैरप्रत्यायनानुमानादन्तद्वयेनापि न प्रत्याययतीत्य 1. Cf. एऐ तु कण्ठतालव्यो। Paniniya.siksha, 18.