________________ 110 अभिधर्मदीपे [143. ___न, प्रसिद्धत्वात्। न खलु वाक्छब्दादन्ये नामादयः सिद्ध्यन्ति / वाक्छब्द एवार्थेषु संज्ञाकर्तृकृतावधिः स्मृत्या गृहीतावयवसमुदायः श्रोतुरथं प्रत्याय[य]तीति किमन्यैर्नामादिभिः परिकल्पितैः ?' तत्रेदं प्रत्यवस्थीयते [143] अन्ये नामादयः शब्दादप्राप्तार्थप्रकाशनात् / शब्दो हि परमानु(ण) संचयः। स प्राप्यार्थ प्रकाशयेत्, प्रदीपवत् / नाजातध्वस्तस्वर्गादिदेशस्थाना (न)र्थ (र्था) न् प्राप्तुं शक्नोति / तस्मात्प्रतिपद्यस्व [न] शब्दोऽथं प्रत्यायतीति / [इ]तश्च क्रमयोगपद्यप्रत्यायनासंभवात् / कथम् ? बल्वजवत् / इह हि बहूनि बल्वजद्रव्याणि प्रत्येकमसमर्थाणि (नि) संभूय रज्वा. (ज्ज्वा) त्मनावस्थितानि दार्वाद्याकर्षणक्रिपासामोपेतानि भवन्ति। न चैवं वाक्यात्मानः शब्दाः बुद्ध्युपगृहोतावयवसमुदायसंक्षेपा: कमलब्धजन्मानः प्रत्येकमर्थं (र्थ) प्रत्यायनसमर्थाः, णा (ना)पि संभूय प्रत्याययन्ति, संभूयानवस्थानाद् बल्वजवत / तस्मात्क्रमयोगपद्यात्प्रत्यायनाऽसंभवान्न शब्दा: कञ्चिदर्थ प्रत्याययन्तीति सिद्धम् / ___ इतश्च, प्रत्याय्यप्रत्याय कादिसंबन्धानुपपत्तेः / कथम् ? प्रदीपवत् / तद्यथा प्रदीपस्तमसि. घटादिप्रत्याय्यप्रत्यायकशक्तियुक्तो घटदर्शणा (ना) थिभिरुपादीयते न च कश्चिच्छब्द : कस्मिश्चिदर्थे केनचित्संबन्धिविशेषेण नियतवृत्तिः, यस्तं गृहीत्वा प्रत्याययेमेति / . तत्र तावत्। [न प्रदीपस्य (स्ये) व प्रत्याय्यप्रत्यायकसंवन्धोऽस्ति / अकृतसंकेतस्याप्रत्यायनात् / नापि संयोगाख्य: संबन्धोऽस्ति सदसतोस्तदनुपात्तः / गुणत्वाच्चेति कस्मिश्चिन्न समवायाख्यः। अत एवाकाशगुणत्वाच्चेति कश्चित् / तस्मात्प्रत्यारपण त्यायनादिसंबन्धानुपपत्तेः यदगदिम न शब्दोऽर्थ प्रत्याय [य] तीति तत्सम्यगभ्यधामेति / 1. Cf. योऽपि हि मन्यते 'नामार्थं द्योतयति' इति तेनाप्येतदवश्यमभ्युपगन्तव्यं यदि प्रतीतपदार्थकं भवतीति / तच्चतच्छन्दमात्रादेव प्रतीतपदार्थकत्वात् सिध्यतीति किमर्थान्तरं नाम कल्पयित्वा। इदं चापि न ज्ञायते कथं वाङ् नाम्नि प्रवर्तत इति / किं तावदुत्पादयत्याहोस्वित् प्रकाशयति / यद्युत्पादयति / घोषस्वभावत्वाद्वाचः सर्वं घोषमात्रं नामोत्पाद. यिष्यति, यादृशो वा घोषविशेष इज्यते नाम्न उत्पादकः स एवार्थस्य द्योतको भविष्यति / अथ प्रकाशयति / घोषस्वभावत्वादाचः सर्वं घोषमात्रं नाम प्रकाशयिष्यति, यादृशो वा घोषविशेष इष्यते नाम्नः प्रकाशकः स एवार्थस्य द्योतको भविष्यति / न खल्वपि शब्दानां सामग्र्यमस्ति क्षणैकमिलनम् / न चैकस्य भागश उत्पादो युक्त इति कथमुत्पादयन्ती वाङ् नामोत्पादयेत् / ... Akb. II. 47 ab. 2. For a similar Jaina view, see Nyayakumudachandra, p. 242. B. See the Commentary by Vyomashiva on the Prasastapadabhashya, p. 322.