________________ 109 142.] . द्वितीयोऽध्यायः। धीनार्थप्रवृत्तयश्च ज्ञानवदर्थस्य प्रतिनिधिस्थानीयाः / निरुक्ति[:]नाम संज्ञा / नाझंगा(ना)मेकसंज्ञत्वात् / यथा तु चक्षुर्विज्ञानकायादयः पञ्चरूपाद्यायत्तवृत्तयः, तहतेऽपि 'वाक्छब्दाधीनजन्मानः'। अतश्चोक्तम्-"वाङ् नाम्नि प्रवर्तते, नामार्थं द्योतयति / " इति / वाचा सह कचटतपादयो जायन्ते तया निधीयन्त इति। प्रतिवर्णानुवर्तिनीनां वाचां सावयवत्वेऽपि सति तदभिधानानुपपत्तिरिति चेत् / न। शब्दभेदसंच यस्य प्रत्ययत्वे तदभिधानसामथ्र्योपपत्तेः। किञ्च, क्रियया च तदस्तित्वं निर्धार्यते। का च सेत्युच्यते। स्वार्थप्रत्यायनं क्रिया। स्वं स्वमर्थं प्रत्याययत्यपौरुषेयत्वान्नामार्थसंबन्धस्यैष तेषां कृतान्तः। ते पुनर्नामसंज्ञाद्यपरनामानः / तत्र नामपर्यायः संज्ञाकरणं यथा घट इति / पदपर्यायो वाक्यम्। यथा घटो दृश्यत इति / येन क्रियामुणकालविशेषा गम्यन्त इति क्वचित् / "यावद्भिरर्थवद्भिः पविवक्षितार्थपरिपूरिभवति तावतां समूहः पदम्" इत्याभिर्मिकाः / / व्यञ्जनपर्यायोऽक्षरं यथा क इत्येतदक्षरं निरवयवममूर्तमप्रतिघं रूप. लक्षणविमुक्त कालिकार्थप्रत्यायनसमर्थ मनोवद [III. B, 3. Fol. 51 प्रतिहतगमनमिति / 1. नैते वाक्स्वभावाः / घोषो हि वाक्, न च घोषमात्रेणार्थाः प्रतीयन्ते / किं तहि / वाङ् नाम्नि प्रवर्तते / नामार्थ द्योतयति / Abk. II. 47 ab.-'नेते वाक्स्वभावाः' इति विस्तरेण वैभाषिकवचनम् / Saks. p. 183. 2. वाक्यं पदं यावतार्थपरिसमाप्तिस्तद्यथा 'अनित्या वत संस्कारा' इत्येवमादि / Akb. II. 46. 3. Cf. संज्ञासमुक्तयो नामकायः / वाक्यसमुक्तयः पदकायः / अक्षरसमुक्तयो व्य ञ्जनकायः / Saku. p. 181. See jps. pp. 15-6. Also cf. नामभिरिति पदसमुदायैक्यिः / पदं रिति सुप्तिङन्तैरक्षरसमुदायैः / अक्षररिति एवमित्यादिवर्णैः / Aaa. p. 279. For the Pali definitions or अक्षर, पद, व्यञ्जन and वाक्य, see Netti-A. p. 209. 4. Cf. अस्तु वा व्यञ्जनमात्रस्य द्रव्यान्तरभावपरिकल्पना / तत्समूहा एव नामकायादयो भविष्यन्तीत्यपाथिका तत्प्रज्ञप्तिः। सन्त्येव तु विप्रयुक्तसंस्कारभावना नामकायादयो द्रव्यत इति वैभाषिकाः / न हि सर्वधर्मास्तर्कगम्या भवन्तीति / Akb. II. 47 ab,