________________ 1.8 अभिषमंदीपे [ 142 तद्विरोधो च / न च किञ्चिदित्येवेषा वाचोयुक्तिरसंबद्धाः (द्धा)। निरथिका चैषा बाचोयुक्तिः। अतस्ते भावाभावो वाग्वस्तुमात्रम् / प्रतिषेधसामर्थात्प्रतिध्यो भावोऽस्तीति चेत् / नास्ति / शशविषाणवच्छब्दो गडमात्रत्वात्प्रतिषेषद्वयार्थानुपपत्तेश्च। किञ्च, कारित्रमात्रनाशाच्च / 'विरुद्धप्रत्ययसान्निध्ये क्रियामात्रं हि नो[दे]ति, नश्यति / तस्मान्ना [न]र्थवान् विनाशशब्दः / कुतश्च ? आगमादुपपत्तेश्च / उक्त हि भगवता-"उत्पन्नानामकुशलानां धर्माणां निरोधाय" इति / ' तथोक्तम्-"इहेकतीयः प्राणातिपातिको भवति" इति विस्तरः / तथा--. “तिस्रः संवर्तन्योऽनलजलानिलाख्या याभिः क्रमेण यावच्छुभकृत्स्ना विन श्यन्ते" इति / तथा-"जातिप्रत्ययं जरामरणम्" इति / उपपत्तिरपि। जन्मनोऽप्यहेतुकत्वप्रसंगात्। यदि खल्वसति सद्भावेऽप्यहेतुको बिनाश:, जन्माप्यहेतुकं भवत्विति / तत्समर्थहेतुसामग्रीसन्निधाने जन्मदर्शणा (ना)त् , तत्सहेतुकत्वमिति चेत् / न। तद्विनाशे तुल्यत्वात्तस्थापि समर्थहेतुसाम ग्रयन्तरसन्निधानाभ्युपगमात् / व्याख्यातानि लक्षणानि // नामकायादयो वक्तव्याः। न खलु वक्तव्याः। न हि ते शब्दादन्ये विद्यन्ते, स्वभावक्रियाभावादिति / ' तदुपदर्शनार्थमिदमारभ्यते / [142] वाक्छब्दाधीनजन्मान: स्वार्थप्रत्यायनक्रियाः। संज्ञाद्यपरणा(ना)मानस्त्रयो नामादयः स्मृताः // विप्रयुक्ताः खलु नामादयः संस्कारस्कन्धसंग्रहीताः। वाक् तु रूपस्कन्धसंग्रहोता वाग्गीनिरुक्तिरित्यर्थः। ते च तदधीनोत्पत्तयो निरुक्त्य 1. Cf. चत्तारो सम्मप्पधाना-इध भिक्खु "उप्पन्नानं अकुसलानं धम्मानं पहानाय छन्दं जनेति वायमति "चित्तं परगण्हाति पदहति / Vbih. p. 208. 2. Cf. इध माणक एकच्चो""पाणातिपाती होति लुद्दो लोहितपाणी होति'"" R. sutta 135. 3. Cf. अग्गिनाभस्तरा हेट्टा प्रापेन सुभकिण्हतो। हप्फलतो वातेन एवं लोको धिनस्सति // A. Vihavint p 94. 4. Cf. जातिपच्चया जरामरणम् / Vbh. p. 135. 5. This is a view of the Sautrantika: नन चैते वाक्स्वभावत्वाच्छदात्मका इति रूपस्वभावा भवन्ति / तस्माचित्तविप्रयुक्ता इत्युच्यन्ते ? Abb. II. 47 ab.-'ननु चैते' इति सौत्रान्तिकवचनम् / Sakv. p. 183. 6. Cf. नामकायावयः संज्ञावाक्याक्षरसमुक्तयः / Ak. II. 47 ab. . .