________________ अभिधर्मदीपे [140. तं प्रतोदमुच्यते [140] शक्तिहानेर्जरासिद्धिः - उन्मिषितो हि धर्मो जायते हृषितः फलमाक्षिपतीति / तस्य यदि जरसा शक्तिर्न विहन्येत स *द्वितीयमपि फलमाक्षिपेत। न च शक्नोत्याक्षेप्तुम् / तस्माद्गम्यते कश्चिज्जराख्यः शत्रुस्तं जर्जरीकृत्योपहृतसामर्थ्यमनिःयतापिशाच्याः समर्पयतीति युक्तमुक्तम् 'शक्तिहानेर्जरासिद्धिः' इति / नेतद्युक्तमुक्त परिणाम दोषप्रसङ्गात् / एवं लघ्वाचक्षाणेन भवता सांख्योयः परिणामोऽभ्युपग तो भवति / नाभ्युपगतः, यस्मात् नान्यत्वात् परिणामिता। __ अन्य एव हि नो जराख्यो धर्मो, अन्यश्च धर्मी। सांख्यस्य त्ववस्थितस्य धर्मिणः स्वात्मभूतस्य धर्मान्तरस्योत्तर्गः स्वात्मभूतस्य चोत्पादः परिणाम इति / कथं पुणः (नः) क्षणिकस्य धर्मस्य शक्तिहानिर्भवति ? एवम् -यस्माद- : स्याजहदात्मकस्य "एककारित्रनाशाभ्यां शक्तिहानिः प्रसिद्धयति // येन खलु दाढयणो (नो)पेतो यमेकं फलमाक्षिपते, यदि तेनैव युक्तः स्याद् द्वितीयमप्याक्षिपेत् / न चैनं शक्तिमन्तमनित्यता हिंस्यात् / तस्माद् गम्यतेऽ. न्यथीभूतोऽयमनित्यताव्याघ्रीमुखं प्रविशति / इत्येकं फलमाक्षिप्य नश्यतीत्युक्त. मेतत्- 'एककारित्र'नाशाभ्यां शक्तिहानिः प्रसिद्ध्यति / ' न प्रसिद्ध्यति, निर्हेतुकत्वाद्विनाशस्य। ये ह्यर्थत्मानो हेतुमन्तस्ते खल्वनित्या दृष्टाः / कथम् ? अंकुरवत् / न विनाशस्य विनाशोऽस्ति, तस्मादहेतुकः / किञ्च, ये चार्थात्मानः पश्चाद्भवन्ति तेषां पूर्वहेतुरस्ति तद्यथा भस्मनो बीजादिसंयोगः। न च विनाशस्य हे तुरस्ति / तस्मादसौ न पश्चाद्भवतीति / तत्र यदुक्त जातस्य स्थित्यन्यथात्वमपेक्ष्य विनाशो भवतीति तदयुक्तम् / अत्र प्रत्यवस्थानम्[141] सति जन्मनि तद्भावाद् द्रव्यकारित्रनाशतः। . प्रागमादुपपत्तश्च विनाशोऽपि सहेतुकः // ...